________________
७८
केशवकुतः कल्पद्रुकोशः
तथा विश्वरुचिश्चैव सप्तविश्वा हविर्भुजः । अथ स्युर्यज्ञपात्राणि स्रुवः पुंसि च वा स्त्रियाम् ॥८४॥ स्त्रियां खुः सूरथापि स्यादुपभृत्स्यात्स्त्रियां जुहूः । जुहुः पुमान् स्रुक स्त्रियां स्यादधरोत्तरणे क्रमात् ॥८५॥ ध्रुवा सा यज्ञकर्मार्थं ' यस्यामाज्यं निधीयते । श्रमिक्षा तु स्मृतामीक्षा क्षीरेण समितं दधि ॥ ८६ ॥ क्षीरं शरः पयस्या स्यान्मस्तुन्यपि तु वाजिनम् । इष्टं तु कार्त्तवं कर्म वापीकूपादिपूर्तकम् ॥८७॥ इष्टापूर्त्त तदेकात्तत्या हव्यपाके चरुः पुमान् । परमान्नं पायसेोऽस्त्री स्यात् क्षीरे 'य्यपि वाच्यवत् ॥ ८८ ॥ ऋक् सामिधेनी धाय्या सा या स्यादग्निसमिन्धने । गायत्र्युष्णिगनुष्टुप च बृहती पंक्तिरित्यपि ॥ ८६ ॥ त्रिष्टुप् च जगती चातिजगत्यपि च शक्करी । श्रष्टतिर्द्वितीयाः स्युरतिपूर्वा तथा कृतिः ॥ ६० ॥ सा तु प्राविसमत्युद्भयः स्युश्छन्दांस्येकविंशतिः । स्त्रियां पङ्क्तिः सैव विराटू 'त्रिष्टुप्तृष्टुबुभे समे ॥६९॥ वृत्तं समं चार्धसमं विषमं त्रिविधं च तत् । गणबद्धमिदं छन्द श्रार्यायं मात्रिकं च तत् ॥६२॥
१ सर्वयज्ञार्थं B २ मिलितं KBS ३ शराK ४ च B ५ कतियं B ६ पिच KC
त्रिषुनिष्टुKC
* जिह्वा इति स्यात् I
७