________________
७० केशवकृतः कल्पद्रुकोशः ब्रह्मचारी गृही वानप्रस्थो भिक्षुक इत्यपि । अथ तत्र ब्रह्मचारी वर्णी मुख्याश्रमी वटुः ॥१२॥ उपनीतो माणवको मेखली वाजिनी' पुनः । तथा गुरुकुलावासी स च स्याद्विविधः क्रमात् ॥१३॥ यावज्जीवं ब्रतपरो नैष्ठिको गृहसंमुखः । उपकुर्वाण इति चाथो वटूकरणं तु षणू ॥१४॥ नयनं नायनं नाय उपादथ द्विजायनम् । स्यात्सूत्रं ब्रह्मयज्ञाभ्यां पवित्रमुपवीतकम् ॥१५॥ देवपर्यायलमाथ स्त्रियां मौञ्जी तु मेखला । ज्योर्णासूत्री कठक्षत्रविशामेषां ह्यनुक्रमात् ॥१६॥ ऐणेयं रौरवं गव्यमजिनानि तथा पुनः । पालाशो वाथवा वैल्वो नैयग्रोधस्ततोऽपरः ॥१७॥
औदुम्बरः स प्राषाढो वर्णः सोपि च वैणवः । रम्भाभंगोछ गृहस्थानां व्रते स्याद्वतिनामपि ॥१८॥ श्रामन्त्रितादिमध्यान्तभवतीशब्दसंयुताम् । भिक्षा देहीत्यथ स्कन्धाद्वामात्कट्यवधिस्थिते ॥१६॥ हृत्पृष्ठवंशगे यज्ञोपवीती स्यादतः पुमान् ।। सव्यश्चा प्यपसव्यस्तु प्राचीनावीत इत्यपि ॥२०॥
१ चाजिनी २ वैणःB३ था B * राम्भोदण्डो इति स्यात् ।