________________
केशवकृतः कल्पद्रुकोशः
शद्वारं गुदोऽस्त्री स्फिक् न स्त्रियामासनं च षण् । पानं ना कटिप्रोथः स्त्रियामपि चुलिश्च्युतिः ॥ २९३॥ ऊर्वोः संधिर्वक्षणः' स्यान्मध्यं वंक्षणमुष्कयोः । विटपं च महावीथ्यस्त्रियामूरुस्तु सक्थि षण् ॥२१४॥ स्यष्ठीवत्तस्य पर्व वारकीलोथ तस्य तु ।
पश्चाद्भागे मन्दिरः स्यात्प्रत्ययं तदधः पुनः ॥२१५॥ कपोली तदधो भागो जङ्घा प्रत्यययोः पुरः । जङ्घापिण्डी पिचण्डी च जाघनी कुल्फगुल्फको ॥ २१६ ॥ द्वयोरधस्ताद्वघुटयोः पार्थी पार्ष्णिरपि स्त्रियाम् । द्वयोर्घटो घुण्टिकोथ पदोऽस्त्री चरणोऽपि पात् ॥ २१७॥ पुमान्पादङ्घ्रिरङ्घ्रिः पत्क्रमणो विक्रमः क्रमः । तन्मूलं गाहिरं क्लीबे पादाग्रं प्रपदं च षण् ॥ २९८ ॥ श्रथ तत्रापि च चिप्रमद्गुष्ठाङ्गुलिमध्यतः । कूर्चमस्त्री तदुपरि स्कन्धोंहिशिर इत्यपि ॥ २१६ ॥ तलं तु तलहृदयं मध्यं पादतलस्य यत् । पादन्यासः पदं क्लीबे क्रमः क्रमणमित्यपि ॥ २२०॥
४४
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥२२९॥
१ वयं २ पिटपंB ३ श्च ४ मंदिर:K ५ प्रत्यBKS स्प्रस्य ६ स्यात्
७ SK