________________
४०००००
MO900.00
RA
२०००००
590००
Adobal
.००
00bha
906
9900
बाढमनुरागिणः आसन् । तैः इमा नाममाला न केवलं कण्ठस्थीकृता, अपि तु अन्तसमयं यावत् पुनरावर्तनं कृत्वा धारिताऽपि आसीत् । एतत्कारणात् तेषां पठन-पाठनशक्तिरत्यर्थं विकसिता आसीत् । ते सर्वेषां पठितग्रंथानां शुद्धीकरणानि कुर्वन्ति स्म तेषां च शुद्धिपत्रकाणि विधाय पुस्तके ('नोटबुके') लिखित्वा सुरक्षितानि विदधति स्म । सान्तलपुरज्ञानभाण्डागारे (ज्ञानरसिकैरेतैः पंन्यासप्रवरैः जंगी-पलांसवासांतलपुरादिवागडप्रदेशग्रामेषु ज्ञान-भाण्डागाराः सुव्यवस्थिताः कृताः, ये अद्यापि तेषां सूक्ष्मेक्षिका-युतामसामान्यां ज्ञानभक्तिं दर्शयन्ति) तैः विहितानि शुद्धिपत्रकपुस्तकानि अद्यापि विद्यन्ते। - पूर्वकालवत् अस्याः नाममालाया; उपयोगिता अद्यतनसमयेऽपि अस्ति एव । विशालसंस्कृतसाहित्यसदनप्रवेशार्थं नाममालायाः कण्ठस्थीकरणं नितान्तमावश्यकम् । कण्ठस्थीभूताः श्लोकाः संस्कृतविद्यार्थिनां ग्रन्थपठनादिकालेऽत्यर्थमुपयोगिनो भवन्ति । व्याकरणादीनां ज्ञाने सम्यक् प्राप्तेऽपि केषाञ्चित् संस्कृत-विद्यार्थिनां काव्यादिग्रन्थेषु न मतिः प्रसरति तस्य कारणं शब्दज्ञानाभावोऽप्यस्ति । यदि तेऽन्यप्रकरणग्रन्थवत् शब्दकोशमपि कण्ठस्थीकृत्य प्रतिदिनपुनरावर्तनेन च सम्यग् धारयेयुस्तहि संस्कृतसाहित्यपठने प्रायेण न क्वापि स्खलनं गच्छेयुः प्रस्तुतग्रन्थः विशेषेण कण्ठस्थीकरणेच्छु-जनार्थमेवं सम्पाद्य प्रकाश्यते । कण्ठस्थीकरणकाले एव श्लोकार्थः मानसपटे दृढमङ्कितः स्यादेतदर्थमेव प्रतिश्लोकात् पूर्वमेव गुर्जरार्थो न्यस्तोऽस्ति । समानार्थकशब्दानां च सङ्ख्याकोऽपि तत्र न्यस्तोऽस्ति । यत्र तेषां शब्दानामन्तो भवति तत्र । ईदृग दण्डचिह्नमपि कृतमस्ति । • सार्थ शब्दावली ।
ग्रन्थस्य पाश्चात्ये विभागे संस्कृताध्येतृजनानामत्यर्थमुपयोगिनी 'सार्थ-शब्दावली' प्रदत्ताऽस्ति, यस्यां स्वोपज्ञवृत्ति-शेषनाम मालाशिलोञ्छसहितायाः अभिधानचिन्तामणिनाममालायाः श्लोकाङ्क
000००००००००००००००००००००० ०००००००००००००
००००००
०००० 1००००
0000000००००० 00.०००.०००
AA