________________
प्रचलिताः अव शब्दाः विधेयाः ('कविरूढ्या ज्ञेयोदाहरणावली' इति तच्छ्लोकः) इति तन्मर्यादाऽपि निश्चिता । यतः कोऽपि अमान्यान् शब्दान् न विदध्यात् ।जार
ईदृश्यः विशेषताः अन्यकोशग्रन्थेषु न दृश्यन्ते । अतः काव्यग्रन्थटीकासु जैनविद्वद्भिस्तु 'इति हैम्याम्' इत्यस्याः नाममालायाः उल्लेखः कृतः एव, किन्तु अजैनटीकाकारैरपि स्वटीकासु अस्याः उल्लेखं कृत्वा स्वकृतयः प्रामाण्यमानीताः सन्ति ।
एतद्ग्रन्थोपरि न केवलं ग्रन्थकारैः आचार्यवर्यैः वृत्तिः (स्वोपज्ञा) विरचिता, अन्यैरपि बहुभिः विद्वद्भिः बढ्यः टीकाः विरचिताः सन्ति (दृश्यतां परिशिष्ट-२) याः एतद्ग्रन्थस्य विद्वज्जनप्रियतां प्रकटयन्ति ।
आधुनिकमुद्रणानि
एतद्ग्रन्थस्य प्रथममाधुनिकमुद्रणं वि.सं. १८६४ वर्षे कलकत्तानगरात् जातम् । ततः प्रभृति अनेकाभिः भिन्न-भिन्नसंस्थाभिः भिन्न-भिन्न समयेऽसकृदेष ग्रन्थः सम्पादितः प्रकाशितश्च (दृश्यतां परिशिष्ट-३) . कोशाध्ययनावश्यकता
एतद्ग्रन्थसर्जनानन्तरमेव अस्य पठन-पाठनानि जैनसाधुसाध्वीषु अन्यविद्वत्सु च भृशं प्रसारमगच्छत्-इति त्रयोदशशताब्द्यनन्तर हस्तप्रतिदर्शनेन अनुमीयते ।
पूर्वकाले किल जैनमुनयः अन्ये विद्वांसश्च सम्पूर्णं शब्दकोश कण्ठस्थं कृत्वा असकृच्च पुनरावृत्य तं बाढम् आत्मसात् कुर्वन्ति स्म, अत एव तेषां विद्वत्ता अप्रतिहता अस्खलिता च जायमाना आसीत् । वर्तमानकालेऽपि बहवः मुनयः इमां नाममालां कण्ठस्थां कृत्वा स्वविद्वत्ताव्यापवर्धनेऽलङ्कर्मीणाः अभूवन्। कच्छवागड-देशोद्धारकपूज्यपादाचार्यदेवश्रीमद्-बिजयकनकसूरीश्वराणां प्रथमशिष्याः पू.पं. श्रीमुक्तिविजयगणिवराः अभिधानचिन्तामणि-नाममालायाः