________________
नूतनसाहित्यसर्जनमपि अविरतं विहितमस्ति । तद्विरचितविशालसाहित्यदर्शनेन वयमाश्चर्यकम्पितशिरांसः जायामहे ।
‘सिद्धहेमशब्दानुशासन-लिङ्गानुशासन-काव्यानुशासन
वादानुशासन-अभिधानचिन्तामणिनाममाला - अनेकार्थसङ्ग्रह-निघण्टु
देशीनाममाला-अन्ययोगव्ययच्छेदिका-अयोग्यव्ययच्छेदिका
त्रिषष्टिशलाकापुरुषचरित्र-परिशिष्टपर्व-योगशास्त्र
द्व्याश्रयकाव्यप्रमाणमीमांसा' - इत्याद्यनेकमहाग्रंथसर्जकाः
जैनसुवर्णयुगप्रणेतारः
प्रचण्डप्रतिभाशालिनः कलिकालसर्वज्ञाः वि.सं. १२२९ वर्षे पत्तने दिवंगताः सूरिभट्टारकाः 'साहित्यदेहेनाद्यापि विद्यमानाः सन्ति । अभिधानचिन्तामणिनाममाला.
कलिकालसर्वज्ञाचार्यवर्याणाम् 'अभिधानचिन्तामणिनाममाला' इत्यभिधा कृतिः अन्यशब्दकोशेभ्यः विशिष्टतमा विद्वत्प्रिया च वर्तते । अस्याः रचना सूरिभिः साङ्गोपाङ्गसिद्धहेमशब्दानुशासनरचनानन्तरं विहिता इति तैरेव अस्य ग्रंथस्य प्रथमश्लोके निर्दिष्टमस्ति । आचार्यदेवाः शब्दज्ञानस्योपयोगित्वं सम्यग् जानन्ति स्म । यतस्तैरेवोक्तं यद् वक्तृत्वं कवित्वं च विद्वत्तायाः श्रेष्ठफले स्तः किन्तु शब्दज्ञानं विना तत्प्राप्तिः न स्यात् ।
अध्ययनार्थिनां व्याकरणज्ञानं विकासयितुं तैश्चतुर्धा शब्दकोशाः रचिताः सन्ति । (१) स्वोपज्ञवृत्तियुता अभिधानचिन्तामणिनाममाला, (२) अनेकार्थसङ्ग्रहः, (३) निघण्टुसङ्ग्रहः, (४) देशी नाममाला (रयणावली) च इति । एषु चतुर्षु अपि 'अभिधानचिन्तामणिनाममाला' विशालतमा । षट्काण्डविभक्तायां १५४२ - श्लोकमितायाम् अमरकोशाद् सार्धगुणान् शब्दान् धारयन्त्यां प्रस्तुतनाममालायाम् आचार्यपादैः ‘वाचस्पति- हलायुध - यादवप्रकाश-वैजयन्ति-व्याडि' इत्यादि-कोश-काव्यानाम् अनेकस्थलेषु प्रमाणानि प्रदत्तानि सन्ति । प्रारम्भिक-२३-श्लोकेषु समानशब्दयोगाद् अनेकपर्यायवाचिशब्दनिर्माणविधानम् आचार्यवर्यैः कृतम्, किन्तु कविपरम्परायां
18