________________
उपलभ्यमानः अस्ति । शेषाः कोशाः प्रायेण इदानीं नोपलभ्यन्ते । जैनविद्वांसोऽपि शब्दसाहित्यमार्गं सम्यक् क्षुण्णवन्तः ।
(दृश्यतां परिशिष्ट - १ )
ग्रन्थकारा आचार्यदेवाः
जैनसाहित्यकारेषु सार्धत्रिकोटिश्लोकरचयितारः कलिकालसर्वज्ञाः आचार्यश्रीहेमचन्द्रसूरीश्वराः मूर्धन्यभावं बिभ्रति । अभिधानचिन्तामणिनाममालायाः रचयितारः एते आचार्या एव । तेषामिदं संक्षिप्तजीवनम्
धन्धूकानगरवास्तव्यपाहिनी - चाचिगाऽऽत्मज: वि.सं. ११४५, कार्तिक शुक्लपूर्णिमायां लब्धजन्मा पञ्चवर्षवयाः चाङ्गदेव: वि.सं. ११५० माघशुक्लचतुर्दश्यां शनिवासरे खम्भातनगरे प्रव्रज्यां प्रपद्य पूर्णतल्लगच्छीय-देवचन्द्रसूरीश्वराणां शिष्यः सोमचन्द्राभिधः मुनिरभवत् । अल्पेनैव कालेन धुरन्धर - विद्वत्सु गणनीयं सरस्वती- लब्धप्रसादम् एकविंशतिवर्षवयसं सोमचन्द्रमुनिं गुरुदेवाः वि.सं. ११६६ वैशाखशुक्लतृतीयादिने आचार्यपदेन समलङ्कृतवन्तः । ततः प्रभृति सः हेमचन्द्राचार्यः इति नाम्ना प्रसिद्धिमगात् ।
सिद्धराज कुमारपालादिभूपप्रतिबोधकैरेतैराचार्यवर्यैः अगणितानि शासनप्रभावककार्याणि विहितानि यानि जैनेतिहासे सुवर्णाक्षरैरङ्कितानि सन्ति ।
आचार्यपादैः कुमारपाल भूपालः अहिंसादेव्याः परम उपासकः विहितः । (प्रस्तुतग्रन्थेऽपि सूरिभिः कुमारपालः परमार्हतः, राजर्षिः, मृतस्वमोक्ता' इत्यादिकैः विशेषणैः ज्ञापितोऽस्ति ।) कुमारपालराज्ये कश्चिदपि जन: ‘मर' इति वक्तुमपि न शक्नोति स्म । कुमारपालप्रवर्तिता अहिंसा गुर्जरदेशे इयती दृढरूढमूला जाता यत् अद्यापि अन्यराज्येभ्यः गुर्जरदेश: अहिंसाप्रधानो वर्तते । अजैनविद्वांसोऽपि कथयन्ति यद् अस्य कारणं हेमचन्द्राचार्यकुमारपालौ स्तः ।
युगप्रवर्तकैरेतैराचार्यपादैः जिनशासनस्य अनेकविधप्रवृत्तिषु