________________
२
४६८ शिलोञ्छे मर्त्यकाण्डः कर्णान्दूरपि कर्णान्दुः, परिहार्येऽपि कङ्कणम् । . किङ्कणी किङ्किणी तुल्ये, आच्छादाऽऽच्छादने समे ॥५४॥ कूर्पासोऽप्यङ्गिका कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्यखण्डं जगुः परे ॥५५॥ तत्राऽऽस्तरणमिति च, पल्यङ्कोऽप्यवसक्थिका । यमन्यपि प्रतिसीरा, स्रस्तरः प्रस्तरोऽपि च ॥५६॥ पतग्राहप्रतिग्रहावपि स्यातां पतद्ग्रहे। . मुकुरोऽप्यात्मदर्शेऽथ, कशिपुः कसिपुः समौ ॥५७॥ यावकाऽलक्तकौ यावे, तुल्ये व्यजनवीजने । गिरीयको गिरिकोऽपि, बालक्रीडनके मतौ ॥५८॥ गेन्दुकोऽपि गन्दुको राट्, मूर्भावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥५९॥ रामचन्द्र-रामभद्रौ, हनूमानपि मारुतौ । बालौ सुग्रीवाग्रजोऽपि, पार्थे बीभत्सुरित्यपि ॥६॥
[अभि० मूलश्लोकाङ्काः ६४०-७१०) सातवाहनवत् सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः, परिबर्हणमित्यपि ॥६१॥
किंकणी कंकणी तुल्ये-शि० टी० ॥५४॥ प्रतिग्रह-पतद्ग्राहावपि । कसिपुः कशिपुः समौ ॥ ५७ ॥ गेण्डुकोऽपि गेन्दुकः (कन्दुरपि-शि० टी ) ॥५९॥ परिबर्हणमित्यपि ॥६१॥