________________
४६० शेषनाममालायां सामान्यकाण्डः परुत् परायैषमोऽब्दे, पूर्वे पूर्वतरेऽत्र च। प्रकारेऽन्यथेतरथा, कथमित्थं यथा तथा ॥२०५॥ द्विधा द्वधा त्रिधा त्रेधा, चतुर्दा द्वैधमादि च । द्वित्रिश्चतुःपञ्चकृत्व, इत्याद्यवर्तने कृते ॥२०६॥ दिग्देशकाले पूर्वादौ, प्रागुदक्प्रत्यगादयः । अव्ययानामनन्तत्वाद्, दिग्मात्रमिह दशितम् ॥२०७।। [यदाहुः-] इयन्त इति संख्यान, निपातानां न विद्यते । प्रयोजनवशादेते, निपात्यन्ते पदे पदे ॥२०८॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ
नाममालायां शेषनामसंग्रहः समाप्तः ॥
द्वि-त्रि-चतुः पच्च०-पु० ।। २०६॥