________________
४५७
शेषनाममालायां तिर्यक्काण्डः मण्डलः कपिलो ग्राममृगश्चन्द्रमहोऽपि च। महिषे कलुपः पिङ्गः, कटाहो गद्गदस्वरः ॥१८३॥ हेरम्बः स्कन्धशृङ्गश्च, सिंहे तु स्यात् पलङ्कपः । शैलाटो वनराजश्च, नभःक्रातो गणेश्वरः ॥१८४॥ शृङ्गोष्णीपो रक्तजिह्वो, व्यादीर्णास्यः सुगन्धिकः । एकरे कुमुखः कामरूपी च सलिलप्रियः ॥१८५॥ तलेक्षणो वक्रदंष्ट्रः, पङ्कक्रीडनकोऽपि च । सगे त्वजिनयोनिः स्यादथो भुजगभोजिनि ॥१८६॥ अहीरणी द्विमुखश्च, भवेत् पक्षिणि चञ्चुमान् । कण्ठाग्निः कीकसमुखो, लोमकी रसनारदः ॥१८७।। बारङ्ग-नाडीचरणौ, मयूरे चित्रपिङ्गलः। नृत्यप्रियः स्थिरमदः, खिलखिल्लो गरव्रतः ॥१८८॥ मार्जारकण्ठो मरूको, मेघनादानुलासकः । मयुको बहुलग्रीवो, नगावासश्च चन्द्रको ॥१८९॥ कोकिले तु मदोल्लापी, काकजातो रतोद्वहः।। मधुघोषो मधुकण्ठः, सुधाकण्ठः कुहूमुखः ॥१९॥
चुचुमान् ॥ १८७ ॥ वारङ्गि-नाडीचरणौ । खिलिखिल्लो गर० ॥१८८॥ मियूको बहुल० ॥ १८९ ॥