________________
१२.
१५
१७
१८
शेषनाममालायां तिर्यक्काण्डः समुद्रे तु महाकच्छो, दारदो धरणीप्लवः । महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः ॥ १६७ ॥ मुरन्दला तु मुरला, सुरवेला सुनन्दिनी । चर्मण्वती रन्तिनदी, संभेदः सिन्धुसङ्गमः ॥ १६८॥ नीका तु सारणावग्नौ, वमिदर्दीप्रः समन्तभुक् । पर्परीकः पवि_सिः, पृथुर्घसुरिराशिरः ॥ १६९ ॥ जुहुराणः पृदाकुश्च, कुषाकुर्हवनो हविः ।। घृतार्चिनाचिकेतश्च, पृष्ठो वश्चतिरश्चतिः ॥ १७० ॥
[ अभि० मूलश्लोकाङ्काः-१०४२-११०० ] अजिभरथ पीथौ च, स्वनिः पवनवाहनः । वायौ मुरालयः प्राणः, संभृतो जलभूषणः ॥१७१॥ शुचित्रहो लौलघण्ट;, पश्चिमोत्तरदिक्पतिः । अङ्कतिः क्षिपणुमको, ध्वजप्रहरणश्चलः ॥१७॥ शीतलो जलकान्तारो, मेघारिः समरोऽपि च । वृक्षे त्वारोहकः स्कन्धी, सीमिको हरितच्छदः ॥१७३॥ उरुजन्तुर्वह्निभूश्च, स्यात् तु श्वेतः कपर्दके । खद्योते तु कीटमणिज्योतिर्माली तमोमणिः ॥१७॥
षष्टो वञ्चति ०-सू० ॥ १७० ॥ लोलघट: ॥ १७२ ॥
.१३
१४
१६
१८