________________
- शेषनाममालायां तिर्यक्काण्डः ४५३ मुनयोऽखशेखरं च, शराभ्यास उपासनम् ॥ १५२॥ जिष्णौ तु विजयी जैत्र;, स्यात् शृगाली तु विप्लवे । करमध्ये सौम्यं तीर्थमथ स्यान्नियमे तपः ॥ १५३ ॥ सत्यवत्यां गन्धवती, मत्स्योदर्यथ वक्रये । भाटकोऽथ साक्षिणि स्यान् मध्यस्थः प्राश्निकोऽप्यथ ॥१५४॥ कूटसाक्षी मृषासाक्ष्ये, सूची स्याद् दुष्टसाक्षिणि । पादुकायां पादरथी, पादजङ्गः पदत्वरा ॥ १५५ ॥ पादवीथी च पेशी च, पादपीठी पदायता । नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिकाः ॥ १५६ ॥ . इति शेषनाममालायां मर्त्यकाण्डस्तृतीयः ।
अथ चतुर्थः काण्डः शेषः प्रारभ्यते । अथ पृथ्वी महाकान्ता, क्षान्ता मैट्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ १५७ ॥ देहिनी केलिनी मौलिमहास्थाल्यम्बरस्थली। गिरौ प्रपाती कुटार उर्वङ्गः कन्दराकरः ।। १५८ ॥ कैलासे धनदावासो, हराद्रिहिमवद्धसः । मलयश्चन्दनगिरिः, स्याद् लोहे धीनधीवरे ॥ १५९ ॥
करमध्ये सोम्य ॥ १५३ ।। पादजङ्गः पदोत्तरा-पु० ॥ १५५ ॥ उच्चङ्गः कन्द०- सू० ॥ १५८ ॥
५