________________
. शेषनाममालायां मयंकाण्डः ४५१ बखे निवसनं वस्त्र, सत्रं कर्पटमित्यपि। दशासु वस्त्रपेश्योऽथ, हिमवातापहांशुके ॥१३७॥ द्विखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः। अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः ॥१३८॥ योगी धन्वी कृष्णपक्षो, नन्दिघोषस्तु तद्रथः प्रन्थिकस्तु सहदेवो, नकुलस्तन्तिपालकः ॥१३९॥ माद्रेयाविमौ कौन्तेयाः भीमार्जुनयुधिष्ठिराः। द्वयेऽपि पाण्डवेयाः स्युः, पाण्डवाः पाण्डवायनाः ॥१४०॥
. अभि० मूलश्लोकाङ्का : ६४०--७१० ] राज्ञश्छ। नृपलक्ष्म चमरः स्यात् तु चामरे। स्यान्न्यायद्रष्टरि स्थेयो, द्वाःस्थो द्वाःस्थितिदर्शकः ॥१४१॥ क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्षे कोट्टपतिः, पौरिको दाण्डपाशिकः ॥१४२॥ वेध्ये निमित्तं वाणे तु, लक्षहा मर्मभेदनः। वारश्च वीरशङ्कुश्च, कादम्बोऽप्यस्त्रकण्टकः ॥१४३॥ नाराचे लोहनालोऽवसायकोऽसिस्तु सायकः । श्रीगो विजयः शाम्ता, व्यवहारः प्रजाकरः ॥१४४॥
द्विखण्डो बरकश्च-पु ॥ १३८ । योधी धन्वी-सू. ॥ १३९ ॥ गानेयो चेमौ ॥ १४० ॥ द्वःये द्वाःस्थिति ०-पु० ॥ १४१॥