________________
१२
४५० शेषनाममालायां मर्त्यकाण्डः तन्त्री-नखारु स्नावानः, सन्धिबन्धनमित्यपि। .. अगुरौ प्रवरं शृङ्ग, शीर्षकं मृदुलं लघु ॥ १३० ॥
[अभि० मूलश्लोकाङ्काः-५७५-६४० ] वरद्रुमः परमदः, प्रकरं गन्धदारु च। चन्दने पुनरेकाङ्ग, भद्रश्रीः फलकीत्यपि ॥१३॥ जातीफले सौमनसं: पुटकं मदशौण्डकम् । कोशफलं कुङ्कमे तु करटं वासनीयकम् ॥१३२ ॥ प्रियङ्गु पीतकाबेरं, घोरं पुष्परजो वरम् । कुसुम्भं च जवापुष्पं, कुसुमान्तं च गौरम् ।। १३३ ॥ वृक्षधूपे तु श्रीवेष्टो, दधिक्षीरघृताहयः । रचनायां परिस्पन्दः, प्रतियत्नोऽथ कुण्डले ॥ १३४ ॥ कर्णादर्शों मेखला तु लालनी कटिमालिका। अथ किङ्कण्यां घर्घरी विद्या विद्यामणिस्तथा ॥१३५॥ नूपुरे तु पादशीली, मन्दीरं पादनालिका । पादाङ्गुलीयके पादपालिका पादकीलिका ॥१३६॥
कण्ठबधनमित्यपि । अगुरौ प्रवरशृङ्गं ।। १३० ॥ सोमनसं-सू० ॥ १३२॥ पीतं काबेरं,-पु० । कुसुम्भं च जपापुष्पं, कुसुमात्तं च -पु० ॥ १३३ ॥ परिस्यन्दः-सू० ॥ १३४ ॥ अथ किंकण्यां तु विधा, विद्यामणिस्तथा परा-पु. ॥ १३५॥ पादशीला-सू० ॥ १३६ ॥