________________
याज्ञवल्क्यः साहसनिरुक्तिस्तद्दण्डश्च
――
।
सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । तन्मूल्याद्विगुणो दण्डो निहवे तु चतुर्गुणः ॥ (१) स्तेयमपि प्रसह्य कृतं साहसमेव यस्माद्, अतो नात्र स्तेयदण्डः किं तर्हि 'सामान्यप्रसभद्रव्यहरणात् साहसं स्मृतम् । तन्मूल्याद्विगुणो दण्डो निह्नवे तु चतु गुणः ||' सामान्यं द्रव्यं द्वयोर्वदन्यतरेण प्रसभं प्रसान्यतरं परिभूयापन्हियते, तत् स्तेयमपि प्रसह्य हरणात् साहसमिति स्मृतं महर्षिभिर्यस्मात् तस्मान्न तत्र स्तेयदण्डः । किं तर्हि अपहृतद्रव्यमुल्याद् द्विगुणः साहसिकदण्ड इत्यभिप्रायः । प्रसह्यापहृत्य निहवे कृते मूल्याचतुर्गुणः । सामान्यद्रव्यहरणं चोदाहरणार्थम् । अन्यदपि यत् प्रसा स्तेयमन्यद्वा क्रियते, तत् सर्व साहसमेव । तथा च नारद:- सहसा क्रियते ' इति । विश्व. विश्व २२२६
"
साहसम्
6
(२) संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्वलक्षणं तावदाह-- सामान्येति । सामान्यस्य साधारणस्य यथेष्टविनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः प्रसभहरणात् प्रस हरणात् । बलावष्टम्भेन ं हरणादिति यावत् । एतदुक्तं भवति । राजदण्डं जनकोशं चोलय राजपुरुपेतरजन समक्षं यत्किचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहसमिति साहसलक्षणम् । अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात्साहसत्वमिति ।
।
तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह-- तन्मूल्या दिति । तस्यापहृतद्रव्यस्य मूल्याद् द्विगुणो दण्डः । यः पुनः
१६३३
इस कृत्य नाहमकार्षमिति निद्युते तस्य मूल्याचतु र्गुणो दण्डो भवति । एतस्मादेव विशेषदण्डविधानात् प्रथमसाहसा दिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयं गम्यते ।
X मिता. (३) सामान्यस्यानेकेषां भ्रात्रादीनां मध्यमकस्य धनस्य प्रसभं स्वामिसमक्षं तानवगणय्य हठादपहरणं साहसम् । एतश्च न साहसस्य लक्षणं किन्तूपलक्षणम् । तलक्षणं वाह नारदः— 'साहसादिति + अप.
(४) सामान्यद्रव्यं बहुजनेः महरादिकालक्रमेण रक्ष्यमाणं द्रव्यं, एतच्छलेन हर्तुं न शक्यते, रक्षणे प्रमादासंभवात् । तेनास्य प्रावेण बलादपहरणम् । तदेतदभिसं धायोक्तंधायोक्तं- 'सामान्यद्रव्यप्रसभहरणमिति । साहसं स्मृतं साहसलक्षणं स्तेयं स्मृतमित्यर्थः । * स्मृच. ३१६ साहसकारयितृदण्ड:
(१) यास्मृ. २।२३०; विश्व. २।२३६ द्रव्यप्रसभ (प्रसभइव्य); मिला. अप णात् (पं); व्यक. १२० तु (च) शेर्पा विश्ववत् ; स्मृच. ६ अपवत्, पू. ३१६ अपवत्, पू.: ३१७ उत्त.; विर. ३५१ द्रव्यप्रसभ ( प्रभवद्रव्य ) तु (च ); पमा. ४५१ उत्त. रत्न. १२८ अपवत्; विचि. १५१ द्रव्यप्रसभ (प्राभवद्रव्य ) तु (च ); स्मृचि. २६ पू.; दवि. २९४ उत्त; सवि. ४५२ पू.; वीमि ; व्यप्र. ३९३ अपवत् ; व्यउ. १२९ पू. : १३१ उत्त.; बिता. ७४८; सेतु. २५८-९ विचिवत्; समु. १४८ णात् ( णं ) ल्या ( ला ).
यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यचैवमुक्त्वाऽई दाता कारयेत्स चतुर्गुणम् ॥ (१) अन्येनापि प्रयोक्तृतया -- 'यः साहसं कारयति सदाप्यो द्विगुणं दमम् । यस्त्वेवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥' पूर्वोक्ताद् द्विगुणं दण्डं कारयिता दाप्यः । यस्त्वैवमुक्त्वा कारयेत् 'क्रियतामिदं यद्यत्र कश्विद् विरोधो भविष्यति, ततोऽहमेव निर्वहणं करिध्यामीति स चोक्तद्विगुणदण्डाचतुर्गुणं दण्डय इत्यवसेयम् । विश्व २।२३७ (२) साहसस्य प्रयोजयितारं प्रत्याह- यः साहसमिति । यस्तु साहसं कुर्वित्येवमुक्त्वा कारयत्यसौ साह
x शेषं मिता. व्याख्यानं ' सहसा क्रियते ' इत्यादिषु नारदलोकेषु द्रष्टम्यम् विर. दवि., बिता मिताबद श्रीमि. मितावत् अपवच्च ।
I
+ शेषं मितावत् ।
* शेषं मितावत् । व्यप्र. स्मृचवत् ।
(१) यास्मृ. २:२३१; अपु. २५८।२६ चै ( स्त्वे ); विश्व. २।२३७ अपुवत्; मिता; अप; व्यक. १२३; स्मृच. ३१२; विर. ३७५; पमा. ४५१; रत्न. १२८; विचि. १६६; दवि. ७५ यश्चै ( तथै ); सवि. ४६५; वीमि ; व्यप्र. ३९३ ऽहं दाता ( हन्तारं ); व्यउ. १३१ क्त्वा ( क्तो ); व्यम. १०५; विता. ७४८; सेतु. ३०९; समु. १४७.