________________
साहसम्
१६१५
दण्डकर्मस्वित्यादि । सर्वेषु दण्डकर्मसु दण्डविधिषु, | परीक्षेत तस्य कायमखिलं तैलेनाभ्यक्तं कृत्वा परीक्षेत । रूपं तत्संज्ञं दण्डादुपरि नियतग्राह्यं द्रव्यं, विद्यात् जानीयात् । रूपं कियद्, अष्टपणं शते दण्डपणशतेऽष्टपणात्मकम् । शतावरेषु शतन्यूनेषु दण्डकर्मसु व्याजीं तत्संज्ञ दण्डद्रव्यादुपरि नियतग्राह्यं द्रव्यं, विद्यात् । व्याजीं किमा त्मिकां पञ्चपणं शते शते पञ्चपणात्मिकाम् । शतमिति मान्तपाठश्चिन्त्यः ।
तैलाभ्यञ्जने हि कृते गूढाः प्रहारा व्यक्तीभवन्तीति तद्व्यक्तीभावानुरूपा परीक्षा प्रवर्तत इति । निष्कीर्णमूत्रपुरीषमिति । निःसृतकीर्णमूत्रपुरीषं, वातपूर्णकोष्ठत्वकं वातपूर्णमुदरं त्वक् च यस्य तं शूनपादपाणिं प्रवृद्धपादपाणि, उन्मीलिताक्षं अमीलितनेत्रं, सव्यञ्जनकण्ठं सचिह्न: पतितत्वरूपचिह्नयुक्तः कण्ठो यस्य तं इत्थम्भूतं जनं, पीडननिरुद्धोच्छ्वासहतं कण्ठपीडनकृतेनोच्छ्वासनिरोधेन हतं विद्यात् ।
तमेवेति। उक्तलक्षणमेव, संकुचितत्राहुसक्थि प्राप्तसंकोचभुजोरुं, उद्बन्धहतं उल्लम्बनहतं विद्यात् । शूनेत्यादि । शूनपाणिपादोदरं, अपगताक्षं अन्तर्मनचक्षुषं, उद्वृत्तनाभिं उद्गतनाभिं अवरोपितं शूलारोपितं, विद्यात्। निस्तब्धगुदाक्षमिति । गुदमक्षि च निर्गतं यस्य तं, संदष्टजिह्वं, आध्मातोदरं शूनोदरं, उदकहतं विद्यात् । शोणितानुसिक्तमित्यादि । स्फुटार्थम् । संभग्नेत्यादि। अव
क्षिप्तं प्रासादादिपातितम् । श्यावपाणीत्यादि । श्यावशब्दः
प्रजानामिति । तासां, दोषबाहुल्यान्निमित्ताद् राज्ञां वा भावदोषतः तासामदुष्टत्वेऽपि राज्ञां धनलिप्सालक्षणचित्तवृत्तिदोषान्निमित्ताद् वा, कल्प्यमाने इति शेषः, रूपव्याज्यौ अधर्मिष्ठे धर्मिष्ठे न भवतः । अतस्तदकल्पनानुकूलं राजभिः प्रजाभिश्चाचरितव्यमित्यभिप्रायः । अत एवाह--धर्म्या तु प्रकृतिः स्मृतेति । यथाविहितो दण्ड एव तु धर्म्य: स्मृतिषु कथितः । श्रीमू. आशुमृतकपरीक्षा
आशुमृतकपरीक्षा । तैलाभ्यक्तमाशुमृतकं परीक्षेत । निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमुन्मीलिताक्षं सव्यञ्जनकण्ठं पीडननिरुद्धोच्छ्वासहतं विद्यात् ।
तमेव संकुचितबाहुसक्थिमुद्बन्धहतं विद्यात् । शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपितं वि द्यात् । निस्तन्धगुदाक्षं संदष्टजिह्वमाध्मातोदरमुदकहतं विद्यात्। शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठै रश्मिभिर्वा हतं विद्यात् । संभग्नस्फुटितगात्रमवक्षिप्तं विद्यात् । श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेनोपदिग्धमुखं विषहतं विद्यात् । तमेव सशोणितदंशं सर्पकीटह विद्यात् । विक्षिप्तवस्त्रगात्रमतिवान्तविरिक्तं मदनयोगहतं विद्यात्। अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयादुद्रन्धनिकृत्तकण्ठं विद्यात् ।
आशुमृतकपरीक्षेति सूत्रम् । अन्तरेण व्रणाभिघातादिकमकाण्डे मृत आशुमृतकः तस्य परीक्षाऽभिधीयत इति सूत्रार्थ: । द्रव्यापहारिण: कण्टकाः प्रागुक्ताः प्राणापहारिण इदानीमुच्यन्ते । तैलेत्यादि । आशुमृतकं, तैलाभ्यक्तं
•
(१) कौ. ४७.
व्य. कां. २०३
कपिशार्थः । विषहतं वत्सनाभादिस्थावरविषहतम्। तमेवेति । श्यावपाणिपाददन्तनखत्वादियुक्तमेव । विक्षिप्तेत्यादि । विक्षिप्तवस्त्रगात्रं वस्त्रं गात्रं च तत इतो विसारितं येन तम् । मदनयोगहतं मदकररसदानहतं विद्यात् । निष्कीर्णेत्यादिनोक्तेषु कारणेषु अन्यतमदर्शनेन हतमनुमिनु
यात्, हन्त्रा वा स्वदण्डभयादुल्लम्बनच्छिन्नकण्ठमनुमिनुयादित्याह -- अत इत्यादि ।
श्रीमू. 'विषहतस्य भोजनशेषं पयोभिः परीक्षेत । हृदयादुद्धृत्यानौ प्रक्षिप्तं चिटचिटायदिन्द्रधनुवर्ण वा विषयुक्तं विद्यात् । दुग्धस्य हृदयमदग्धं दृष्ट्वा वा ।
तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत । दुःखोपहतमन्यप्रसक्तं वा स्त्रीजनं, दायनिवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम् । तदेव हतोद्वद्धस्य परीक्षेत । स्वयमुद्धद्धस्य वा विप्रकारमयुक्तं मार्गेत ।
सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्था समवायो वा विवादपदा(१) कौ. ४।७.