________________
व्यवहारकाण्डम्
१६०८
कवचादिबन्धः विगतव्यापारो वा । शेषाः तैर्न युध्येत तान् न हिंस्यादित्यर्थः । गौतम :- 'न दोषो हिंसायामाहवे । अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश पराङ्मुखोपविष्टस्थलवृक्षारूढ - दूतगोब्राह्मणवादिभ्यः' इति ( गौध. १०।१६-७ ) । व्यश्वसारथीत्यत्र व्यश्वो विसारथिरिति योजना । व्यश्वादिशब्दो दूतादिभि: प्रत्येकं संबन्धनीयः । अदूतो
दूतोऽहमिति यो वदति गौरहं ब्राह्मणोऽहमिति । पूर्वोक्तान् विशिनष्टि- अन्यत्राऽऽततायिन इति । आततायी साहसकारी । बौवि. (पृ. ९०-९१ )
प्रसिद्धाः ।
तथा च
अथाऽप्युदाहरन्ति—
अध्यापकं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा भवति मन्युस्तं मन्युमृच्छतीति ॥ तद्धिंसायां दोषाभावं परकीयमतेनोपन्यस्यति अथेति । भ्रूणहा यज्ञसाधनवधकारी । भ्रूणो यज्ञः, बिभर्ति सर्वमिति । एवं ब्रुवतैतदभिप्रेतम् - आततायिविषयेऽपि ब्राह्मणवधे दोषोऽस्तीति । इतरथा 'न तेन भ्रूणहा भवति' इति नाऽवश्यत् । बौवि. (पृ. ९१ ) वसिष्ठः
निमित्तविशेषे साहसानुज्ञा । आततायिनः । आततायिनं हत्वा नात्र प्राणच्छेत्तुः किञ्चित्किल्बि - षमाहुः । षडूविधा ह्याततायिनः । अथाऽप्युदाहरन्ति
अभिदो गरदचैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरचैव षडेते आततायिनः ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा स स्यान्मन्युस्तं मृत्युमृच्छति ॥ यत्तु बौधायनेनोक्तम् – 'षट्स्वनभिचरन् पतति' इति । षट्सु आततायिष्विति शेषः । के पुनस्त इत्यपेक्षित वसिष्ठ: - अग्निद इति । उदाहरणभूतानां अत्यन्तप्रसिद्धानां षड्विधत्वादुभयत्र षड्ग्रहणं, न पुन: परिसंख्यार्थ, विधान्तरेणाततायिनां लोके विद्यमानत्वात् । X स्मृच. ३१५ आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यौ शस्त्रमाददीयाताम् ।
क्षत्रियस्य तु तन्नित्यमेव रक्षणाधिकारात् ।
ह्या (स्वा).
(३) वस्मृ. ३।१९; गोर. ८ ३५० रहरश्चैव (रापहारी च); स्मृच. ३१५; रत्न. १२८; दवि. २३४ गोरावत्, मनुवसिष्ठौ; विता. ४९१ (= ) क्षेत्रदारहरश्चैव (स्त्रीहारी धनहारी च) उत्त. : ७६१; समु. १४७.
(४) वस्मृ. ३।२०; स्मृच. ३१४ पारगम् (गं रणे )
विष्णुः
साहसप्रकारा:
परदाराभिमर्श स्तेयमुभयं पारुष्यं परहिंसा च ।
अत्र कात्यायन: 'सहसा यत्कृतं कर्म तत्साहसमुदाहृतम्' इति । एतदेवाह नारदः - 'सहसा क्रियते कर्म यत्किञ्चिद्वलदर्पितै: । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥' इति । साधारणपरधनयोर्हरणं बलावष्टम्भेन क्रियमाणं साहसमित्यर्थः । अत एवाह याज्ञवल्क्यः 'सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम्' इति । एतच्चतुर्विधमित्याह विष्णुः परदाराभिमर्श स्तेयमुभयं पारुष्यं परहिंसा च' इति । बृहस्पतिस्तु-'मनुष्यहरणं चौर्य परंदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं तु चतुर्विधम् ॥' इति वचनद्वये क्रमस्य प्रयोजनाभावादविवक्षितत्वमिति मन्तव्यम् । यत्तु शङ्खलिखितोक्तम्–‘चौर्यपारुष्यहिंसाः साहस पदवाच्याः ' इति, तत्र स्त्रीसंग्रहणस्य चौर्यानतिरेकात् स्त्रीसंग्रहणस्तेये चौर्यपदेन संगृहीते इति मन्तव्यम् । सवि.४५१-५२
(१) बौध. १।१०।१३-४.
X अधिकं स्मृत्र. व्याख्यानं 'गुरुं वा बालवृद्धौ वा 'इति
(२) वस्मृ. ३।१६-८ (ख) प्राणच्छेत्तुः ( त्राणमिच्छो :) मनुवचने द्रष्टव्यम् । अन्ये आततायिनः कात्यायने द्रष्टव्याः
ब्रह्म (भ्रूण); रत्न. १२७ पारगम् (गे रणे) ब्रह्म (भ्रण); विता. ७५८ पारगम् (गं रणे); समु. १४७ स्मृचवत्.
(१) वस्मृ. ३।२१
(ख) स्तं मृत्यु (स्तन्मन्यु).
(२) वस्मृ. ३।२६; स्मृच. ३१३ विष्णुः रज. १२७ संकरे (संसर्गे) विष्णुः; समु. १४७ विष्णु:.
(३) वस्मृ. ३।२७.
(४) सवि. ४५२.