________________
साहसम्
(१) यत्तु बृहस्पतिनोक्तम्- 'प्रकाशवधकाराश्च तथा चोपांशुघातकाः । ज्ञात्वा सम्यक् धनं हृत्वा हन्तव्या विविधैर्वधैः॥' इति, तत् ब्रह्मघ्नक्षत्रियादिविषयम् । यदाह बौधायन: - -क्षत्रियादीनामित्यादि । स्मृच. ३१२
(२) क्षत्रियादीनामिति । सर्वत्र निकृष्टजातीयेनोत्कृष्टजातीयवधे वधः सर्वस्वहरणं च दण्डो द्रष्टव्यः । तेषा मेवेति । तुल्यापकृष्टता चात्र जातितोऽभिजनधनवर्तनादिभि: । यथाबलं यथास्वशक्ति । तथा स्मृत्यन्तरम् -- ' देशकालवयश्शक्तिबलं संचिन्त्य कर्मणि । तथाऽपराधं वावेक्ष्य दण्डं दण्डेयेषु पातयेत् ॥' इति । क्षत्रियवध इति । दण्डः प्रायश्चित्तं चैतत् । यथा 'श्वभि: खादयेद्वाजा निहीनवर्णगमने स्त्रियं प्रकाशम्' इति । राज्ञे पालयित्रे त्यजेत् । एवं च वैरनिर्यातनमपि कृतं भवति । वैरस्य पापस्य निर्यातनमपयातनं नाश इत्यनर्थान्तरम् । यद्वा-स्वजातीयनिमित्तकोपप्रशमनम् । यथा- 'द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादतुष्टिम् ||' इति । शतमिति । सर्वत्र प्रायश्चित्तार्थ इति शेषः । एषोऽपि राज्ञे त्यागः । शूद्रवधेनेति । ऋषभैकादशगोत्यजनमत्रातिदिश्यते । इह चान्द्रायणस्याऽभ्युपचयो द्रष्टव्यः । आह च मनुः–‘स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम्।' `इति प्रस्तुत्य, 'उनातकसंयुक्तो गोनो 'मासं यवान् पिवेत् । इति । 'एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवर्ज शुद्धयर्थं चान्द्रायणमथापि वा ।।' इति । अन्यत्रेति । तस्या वधे वक्ष्यति - 'आत्रेय्या वधः क्षत्रियवधेन व्याख्यात:' इति । अनात्रेयीस्त्रीवधे *पभैकादशदानमित्यर्थः ।
धेन्वनडुहोति । वध इति शेष । धेनुः पयस्विनी, अनड्वान् अनोवहनक्षम: पुङ्गवः । अयमपि ऋषभैका. दशगोदानातिदेशः । वधे इति । ऋप भैकादशगोदानस्यान्ते तु नात्र दानतपसः समुच्चयः । अत एवैतत् ज्ञापितं भवति -धेन्वनडुहावत्र विशिष्टपुरुषसंबन्धिनावग्निहोत्रादिविशिप्टोपयोगार्थौ । दुर्भिक्षादिषु च बहुदोग्धृत्वेन बहुवोदृत्वेन
१६०७
प्रजासंरक्षणार्थी वेति । अन्यथा शूद्रहत्यातः तस्य प्रायश्चित्तं गुरुतरं न स्यादिति । आत्रेय्या इति । 'रजस्वलामृतुस्नातामात्रेयीमाहुरत्र ह्येष्यदपत्यं भवति' इति । गोवधे इत्यन्ये । क्षत्रियवधदण्डप्रायश्चित्तयोरुभयोरयमतिदेशः । हंसेति । शूद्रं हत्वा यत्प्रायश्चित्तं तत्प्रायश्चित्तमेतेषां वधे भवति । सर्वत्र चातिदेशे मानाधीनता । इह मण्डूकग्रहणं मार्जारादीनामपि प्रदर्शनार्थम् । आह च मनुः'मार्जारनकुलौ हत्वा चापं मण्डूकमेव च । श्वगोधोलूककाकांश्च शुद्रहत्याव्रतं चरेत् ॥' इति । प्रचलाको डिम्बः । डिड्डिकः चुचुन्दरी । आदिग्रहणात् क्रुञ्चक्रौञ्चादेरपि ग्रहणम् | 'क्रुञ्चक्रौञ्च शूद्रहत्यावत् प्रायश्चित्तम्' इति स्मृत्यन्तरात् । एवं तावत् 'शास्ता राजा दुरात्मनाम्' इति मत्वा प्रायश्चित्तान्यपि राज्ञा कारयितव्यानीत्यर्थः । तानि दिङ्मात्रेण दार्शतानि । बौवि. (पृ. ९२-४) निमित्तविशेषे साहसानुशा ब्राह्मणार्थे गवार्थे वा वर्णानां वाऽपि संकरे । गृहयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ||
कटक... काश्व (मण्डूक नकुला हिखञ्जरीट) वधे (वध); समु. १४६ मृचवत् : १६३ ( शूद्रवर्धन ... व्याख्यातः ० ) प्रचलाक ( बलाका) कण्टक... शूद्रवत् (मण्डकनकुलभैरिकब कोकिलादीनां बधे क्षुद्रपशुवत् )."
व्य. कां २०२
अथेदानीं विप्रविशोश्च शस्त्रग्रहणे कारणमाहगवार्थे इति । अर्थशब्दश्चात्र रक्षणप्रयोजनवचनः । वर्णानां संकरः, अनर्हस्त्रीपुंसलक्षण: । शस्त्रग्रहणे हेतु :धर्मव्यपेक्षयेति । धर्मबुद्धयेति यावत् ।
बौवि. (पृ. १४०–४१) भार्यार्थमपि ब्राह्मण आयुधं नाददीत । षट्स्वनभिचरन् पतति । भीतमत्तोन्मत्तप्रमत्तविसन्नाह स्त्रीबालवृद्ध ब्राह्मणैर्न युध्येत । अन्यत्राऽऽततायिनः ।
भीत: त्रस्त: । मत्तः सुरादिपानी । उन्मत्तो विरुद्धचेष्टः । प्रमत्तो विगतचेताः । विसन्नाहो विगलित
(१) बौध २।२।८० ब्राह्मणायें गवायें ( गवार्थे ब्राह्मणायें ) तिक्रमे (पेक्षया); स्मृव. ३१३; २. १२७ विशौ (वैश्यौ); व्यप्र. ३९५-६ थें वा (मथें) वाऽपि (चापि ) संक (रुङ्ग); व्यउ. १३३ थे वा (थे च) नां वाऽ (नाम); बिता. ७५५-६; समु. १४७.
(२) स्मृच. ३१३; व्यप्र. ३९६ भार्या (हास्या) ब्राह्मण (ब्रह्म); समु. १४७.
(३) स्मृच. ३१५; समु. १४७.
(४) बौध. १।१०।११-१२.