________________
१९८४
व्यवहारकाण्डम्
सर्वानर्थः कुले यत्र जायते पापपूरुषः । अकीर्ति जनयत्येव कीर्तिमन्तर्दधाति च॥ सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः। नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वांत यौतकम् ॥ अनुपघ्नन् पितुायं जङ्घाश्रमफलोऽध्वगः । स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥ भ्रातृणामविभक्तानामुत्थानमपि चेत्सह । न पत्रभागं विषमं पिता दद्यात्कदाचन ॥ न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा । -यदि स्त्री यद्यवरजः श्रेयश्चेत्तत्तदाचरेत् ॥ धर्म हि श्रेय इत्याहुरिति धर्मविदो जनाः । दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥ दश चैव पितृन्माता सर्वा वा पृथिवीमपि । गौरवेणाभिभवति नास्ति मातृसमो गुरुः ।। माता गरीयसी यच्च तेनैतां मन्यते जनः । ज्येष्टो भ्राता पितृसमो मृते पितरि भारत ।। स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयत् । कनिष्ठास्तं नमस्येरन् सर्वे छन्दानुवर्तिनः ।। तमेव चोपजीवरन् यथैव पितरं तथा ।
शरीरमेतौ सृजतः पिता माता च भारत ॥ आचार्यशास्ता या जातिः सा सत्या साऽजराऽमरा।। ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ । भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥
ज्येष्ठमहिमा ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः।
ज्येष्ठश्चेन्न प्रजानाति कनीयान् किं करिष्यति ॥ व्यङ्गो ज्येष्ठः राज्यानहः । गुणश्रेष्ठ एव राज्याहः तत्पुत्रादयश्च । ज्येष्ठोऽयमिति राज्ये च स्थापितो विकलोऽपिसन् । निर्जित्य परराष्ट्राणि पाण्डुर्मह्यं न्यवेदयत् ॥ कुलधर्मस्थापनाय ज्येष्ठोऽहं ज्येष्ठभाङ्न च । बहूनां भ्रातृणां मध्ये श्रेष्ठो ज्येष्ठो हि श्रेयसा ॥
कनीयानपि स ज्येष्ठः श्रेष्ठः श्रेयान्कुलस्य वै । तस्माज्येष्ठश्च श्रेष्ठश्च पाण्डुर्धर्मभृतां वरः॥ | (१) भा. (भाण्डा.) ११२२३।४.. (२) भा. (भाण्डा. परिशिष्टं ) ११८२।११-१६ (पक्तिः).
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ।। युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः॥ अयं त्वनन्तरस्तस्मादपि राजा. भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥ प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान् पूर्व स कथं नृपतिर्भवेत् ॥ स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः। . तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥
पुत्रमहिमा न हि धर्मफलैस्तात न तपोभिः सुसंचितैः। . तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति हा॥ तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् ।। तत्सव न समं तात संतत्येति सतां मतम् ।। भार्या पतिः संप्रविश्य स यस्माज्जायते पुनः। जायाया इति जायात्वं पुराणाः कवयो विदुः॥ यदागमवतः पुंसस्तदपत्यं प्रजायते । तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ . न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । शिशोरालिङ्ग्यमानस्य. स्पर्शः सूनोर्यथा सुखः॥ ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥ स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः । पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥ त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम । इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥
(१) भा. (भाण्डा.) १।१०७।२४,२६,२७. (२) भा. (भाण्डा.) १।१२९।५,१५. (३) भा. (भाण्डा.)१।१३।२१. (४) भा. (भाण्डा.) १।४१।२८. (१) भा. (भाण्डा.) १६८।३६-३८, ५५.६५.