________________
दायभागः
१९८५
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव । । इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ।। ननु नामाङ्कमारोप्य स्नेहानामान्तरं गताः। मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥ • वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । जातकर्मणि पुत्राणां तवापि विदितं तथा ॥ अङ्गादङ्गात्संभवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ पोषो हि त्वदधीनो मे संतानमपि चाक्षयम् । तस्मात्त्वं जीव में वत्स सुसुखी शरदां शतम् ॥ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः ।। सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥ | यथा ह्याहवनीयोऽग्निार्हपत्यात्प्रणीयते । ततः त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः॥
पुत्रमहिमा । पुत्रप्रकाराः। कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् । उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् ॥ स्वपत्नीप्रभवान्पश्च लब्धान्क्रीतान्विवर्धितान् । कृतानन्यासु चोत्पन्नान् पुत्रान्वै मनुरब्रवीत् ॥ धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः । त्रायन्ते नरकाजाताः पुत्रा धर्मप्लवाः पितॄन् ॥ स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । आत्मानं सत्यधर्मों च पालयानो महीपते । नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥ वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला। अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी। ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥ भना माता पितुः पुत्रो येन जातः स एव सः भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् । तस्माद्भरख दुःषन्त पुत्रं शाकुन्तलं नृप ॥ (१) भा. (भाण्डा.) ११६९।१७-२१,२८-३३.
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् । शाकुन्तलं महात्मानं दौःषन्ति भर पौरव ॥ भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥ भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ।। धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्व मयैकया । इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥ इह वा तारयेदुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ आकाङ्कन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः । आत्मा पुत्रः सखा भार्या कृच्छ्रे तु दुहिता किल। स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ।। वाक्यं चोवाच । स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोकाः सन्तीति ।
पुत्रिका ताः सर्वास्त्वनवद्याङ्गयः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः।। ददौ स दश धर्माय सप्तविंशतिमिन्दवे । दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे । प्रजापतिः प्रजा दक्षः सिसक्षुर्जनमेजय ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ।। पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ । एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयनमां प्रतिगृह्णीष्व पाण्डव ।।
(१) भा. (भाण्डा.) १।१४७।१,३-६,११. (२) भा. (भाण्डा.) १।९०।६७. (३) भा. (भाण्डा.) १६०।११,१२. (४) भा. (भाण्डा.) १७०७,८. (५) भा. (भाण्डा.) १२०७।२१-३.