________________
स्वामिपालविवाद:
महाभारतम् पशुपालनभृति:
वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम् । दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ॥ पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह । विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत् ॥ रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् । प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् ॥ ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः । तस्य वृत्ति प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥ षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् । .. लब्धाच्च सप्तमं भागं तथा शृङ्गे कला खुरे ।। सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः । न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ॥ वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ॥ नारदः पशुनाशे व्यवस्था बालाचर्मापरे सक्थी बस्तिस्नायूनि रोचनाम् । दद्यात्पशुमते सर्व मृतेष्वङ्कांश्च दर्शयेत् ॥ व्यासः द्विजबान्धवगोकृत सस्यभक्षणं क्षम्यम् आक्रम्य च द्विजैर्भुक्तं परिक्षीणं च बान्धवैः । गोभिश्च नरशार्दूल वाजपेयाद्विशिष्यते ॥
(१) भा. १२।६०।२१-७.
(3) Dr. Jolly--Narada Preface page 8-Nepalese MS.
(३) स्मृच. २१२ च द्विजैर्भुक्तं ( यद्विजैर्युक्तं ) णं च
स्मृत्यन्तरम् सस्यनाशे दण्डः
वत्सानां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः ॥
नारदः बलाद्भूमिर्नं हर्तव्या
अतो भूमिर्न हर्तव्या जानता भूमिजं भयम् । बलाद्धृताया भूमेस्तु करणं न प्रमाणकम् ॥ (१) स्मृचि. २३.
अनिर्दिष्टकर्तृकवचनम्
सस्यनाशे दण्डः
गुरोः क्षुद्रात् पशो रात्रावह्नि कामादकामतः । : महानल्पः शस्यनाशो दण्डभेदाय भिद्यते ॥
अग्निपुराणम्
पालधर्माः सस्यरक्षा च
दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनम् । स तु दण्ड्यः शतं राज्ञा सुवर्ण वाऽप्यरक्षिता ॥ धनुः शतं परीणाहो ग्रामस्य तु समन्ततः । द्विगुणं त्रिगुणं वाऽपि नगरस्य च कल्पयेत् ॥ वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् । तत्रापरिवृते धान्ये हिंसिते नैव दण्डनम् ॥
( णैश्च ); व्यउ १०१; व्यप्र. ३५३; विता. ६८२-३ च (श्व ) नर ( राज ); समु. १०४ च ( यत् ) णं च ( णैश्च ).
(१) पमा. ३८१; दवि. २८४ ( सन्नानां द्विगुणो दण्डो वसतां तु चतुर्गुणः ) नारदः .
(२) दवि. २८२.
(३) अपु. २२७ ११८-२१.
सीमाविवादः
अग्निपुराणम् गृहाद्याहरणे दण्ड:
गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्द्विशतो दुमः॥
(१) अपु. २२७।२१-२२.