________________
कहयुक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि । । अङ्गुष्ठाङ्गुलियोगेन तप्तमाएं समुद्धरेत् ॥ शुद्धं ज्ञेयमसदिग्धं विस्फोटादिविवर्जितम् । फालशुद्धि प्रवक्ष्यामि तां शृणु त्वं धनंजय॥ आयसं द्वादशपलं घटितं फालमुच्यते । . अष्टाङ्गुलमदीर्घ च चतुरङ्गुलविस्तृतम् ।। वह्नयुक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि । त्रिः परावर्तयेज्जिह्वां लिहन्नस्मात्षडङ्गुलम् ॥ गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् । जिह्वापरीक्षणं कुर्यादग्धा चेन्न विमोच्यते ॥ तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते । तन्दुलस्याथ वक्ष्यामि विधिधर्म सनातनम् ॥ चौर्ये तु तन्दुला देया न चान्यत्र कथंचन । तन्दुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत् ॥ प्रभाते कारिणे देया भक्षणाय न संशयः । त्रिःकृत्वः प्राङ्मुखश्चैव पत्रे निष्ठीवयेत्ततः ॥
पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन । तांस्तु वै कारयेच्छुद्धास्तन्दुलान् शालिसंभवान् । मृन्मये भाजने कृत्वा सवितुः पुरतः स्थितः । तन्दुलान्मन्त्रयेच्छुद्धान् मन्त्रेणानेन धर्मतः ।। दीयसे धर्मतत्त्वज्ञैर्मानुषाणां विशोधनम् । स्तुतस्तन्दुल सत्येन धर्मतस्त्रातुमर्हसि ॥ निष्ठीवने कृते तेषां सवितुः पुरतः स्थिते । शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत् ॥ एवमष्टविधं दिव्यं पापसंशयच्छेदनम् । भट्टादित्यस्य पुरतो जायते कुरुनन्दन । जलदिव्यं तथा प्राहुर्द्विप्रकारं पुराविदः । जलहस्तं स्मृतं चैकं मन्जनं चापरं विदुः ।। बाणक्षेपस्तथादानं यावद्वीर्यवता कृतम् । तावत्तं मजयेज्जीवेत्तथा तच्छुद्धिमादिशेत् ।। एवंविधमिदं स्थानं भट्टादित्यस्य भारत । ममैव कृपया भानोर्जातमेतन्महीतले ॥
मानसंज्ञाः
अनिर्दिष्टकर्तृकवचनानि भावसाध्यत्वभावोऽपि केचित्स्यात्संशयेषु च । साक्ष्यादीनामभावेऽत्र दिव्याभावे च कुत्रचित्॥ दिव्ये तु मूर्द्धदण्डाभ्यां साध्यधैं हेम कल्पयेत्। तत्रारभ्यार्धकाकण्याः शूद्रो दूर्वाकरः शपेत् ॥ त्रिकाकण्यूनषण्मानात् कृष्णलात्तिलहस्तकः । द्विगुणाद्रूप्यपाणिस्तु त्रिगुणात् काञ्चनं दधत् ॥ चतुर्गुणात् करे कृत्वा मृत्तिका लाङ्गलोध्दृताम् नीचः पञ्चगुणात्पुत्रदारैरन्यत्रपातकैः ॥ पणानां दशमानानां दशकाद्धर्मशोधनम्। तत्रैवार्थेषु लेढव्यं फालं फालोपजीविना ॥ स्यात्पञ्चदशकात्कोशः त्रिंशतस्तण्डुलाः स्मृताः । (१) व्यनि. २१८-२२०. म्य. कां. २४७
चत्वारिंशत्तवत्ता (?) तु तप्तमाषसमुध्दृतिः ।। पञ्चाशतस्तुला ज्ञेयाः सप्तषष्ठे जलं भवेत् । पञ्चसप्ततिकादग्निः शातात्स्यात् विषभक्षणम् ॥ एतानि शूद्रस्योक्तानि द्विगुणेऽर्थे विशः स्मृताः। चत्वारिंशद्धान्यमाषः तौ यवः तौ च कृष्णलम् ॥ कृष्णलद्वितयं प्रोक्तं अण्विकाऽप्यत्र (?)
पणोऽप्यसौ। तिस्रोऽण्विकाः कृष्णलं च हेममाष इतीर्यते ॥ शाणोण्विकाश्चतस्रस्तु दीनारास्था (ख्यः?) चतुर्दश। अण्विका विंशतिः निष्कं शाणं साष्टाण्विकं तु तत् ॥
अष्टाण्विकाधिकं निष्कद्वितयं चित्रको भवेत् । सषोडशाण्विकं निष्कद्वयं कर्षक उच्यते ॥