________________
१९६६
व्यवहारकाण्डम्
तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम् । प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा॥ पाषाणस्यापि जायेत स्तम्भेषु च धटस्तथा। वणिक्सुवर्णकारो वा कुशलः कांस्यकारकः ॥ तुलाधारंधरः कार्यों रिपौ मित्रे च यः समः । श्राववेत्प्रावियाकोऽपि तलाधार विचक्षणः॥ ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम् । द्वितीये मृत्तिका शुभ्रां गौरां तु तुलयेबुधः॥ इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत् । तोलयित्वा ततः पूर्व तस्मात्तमवतारयेत् ॥ मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत् । पत्रे मन्त्रस्त्वयं लेख्यो यः पुरोक्तः स्वयंभुवा ॥ ब्रह्मणस्त्वं सुता देवि तुलानाम्नेति कथ्यते । तुकारो गौरवे नित्यं लकारो लघुनि स्मृतः ॥ गुरुलाघवसंयोगात्तुला तेन निगद्यसे । संशयान्मोचयस्वैनमभिशस्तं नरं शुभे॥ भूय आरोपयेत्तं तु नरं तस्मिन् सपत्रकम् । तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ॥ हीयमानो न शद्धः स्यादिति धर्मविदो विदः । शिक्यच्छेदे तुलाभने पुनरारोपयेन्नरम् ॥ एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत् । एतत्सर्व रवौ वारे कार्य संपूज्य भास्करम् ॥ अथातः संप्रवक्ष्यामि विषदिव्यं शृणुष्व मे ॥ द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा । शृङ्गिणो वत्सनाभस्य हिमशैलभवस्य वा ॥ यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः । मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैवं निवेशयेत् ।। त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः । त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम् ।। येन वेगविना जीर्ण छर्दिमूर्छाविवर्जितम् । तं तु शुद्धं विजानीयादिति धर्मविदो विदुः ॥ क्षुधितं क्षुधितः सर्प घटस्थं प्रोच्य पूर्ववत् । संस्पृशेत्तालिकाः सप्त न दशेच्छुध्यतीति सः ।।
आमिदिव्यं यथा प्राह विरश्चिस्तच्छृणुष्व मे। सप्तमण्डलकान्कुर्यादेवस्याने रवेस्तथा ॥ . मण्डलान्मण्डलं कार्य पूर्वेणेति विनिश्चयः । षोडशाङ्गुलकं कार्य मण्डलात्तावदन्तरम् ।। आर्द्रवाससमाहूय तथा चैवाप्युपोषितम् । कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा। ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ।। पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः। चतुरस्र मण्डलेऽन्ये कृत्वा चैव समौ करौ ॥ लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः । सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः ॥ नवेन कृतसूत्रेण कार्पासेन दृढं यथा । .. ततस्तु सुसमं कृत्वा अष्टाङ्गुलमथायसम् ।। पिण्डं हुताशसंतप्तं पञ्चाशत्पलिकं दृढम् । आदौ पूजां रवेः कृत्वा हुताशस्याथ कारयेत् ॥ रक्तचन्दनधूपाभ्यां रक्तपुष्पैस्तथैव च । अभिशस्तस्य पत्रं च बध्नीयाच्चैव मूर्धनि । मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च । . त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे ॥ पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम ।। जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम्। पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ॥ अथवा शुद्धभावेषु शीतो भव महाबल । ततोऽभिशस्तः शनकर्मण्डलानि परिक्रमेत् ॥ परिक्रम्य शनैर्जह्याल्लोहपिण्डं ततः क्षितौ । विपत्रहस्तं तं पश्चात्कारयेद् ब्रीहिमर्दनम् ।। निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः । भयाद्वा पातयेद्यस्तु तदधो वा विभाव्यते ॥ पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः । अथातः संप्रवक्ष्यामि तप्तमाषविधि शणु ॥ कारयेदायसं पात्रं तानं वा षोडशाङ्गुलम् । चतुरगुलखातं तु मृन्मयं वापि कारयेत् ॥ पूरयेद्धृततैलाभ्यां पलैर्विंशतिभिस्ततः । । सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम् ।।