________________
दिव्यम् =
स्कन्दपुराणम्
शपथको शटविषाग्नितप्तमाषफाल तन्दुलजलानि दिव्यानि सौ देवो भट्टादित्योऽत्र तिष्ठति । भूयानतोऽपि बहुश: पापहा धर्मवर्धनः ॥ दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम् । पापानां चोपभुक्तं हि यथा पार्थ हलाहलम् ।। अर्जुन उवाच -
दिव्यप्रकार मिच्छामि श्रोतुं चाहं मुनीश्वर । .. कथं कार्याणि कानीह स्फुटं यैः पुण्यपापकम् ॥ नारद उवाच -
शपथाः कोशघटक विषाग्नी तप्तमाषकौ । फालं च तन्दुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ॥ असाक्षिकेषु चार्थेषु मिथो विवदमानयोः । राजद्रोहाभिशापेषु साहसेषु तथैव च ॥ अविदस्तत्त्वतः सत्यं शपथेनाभिलङ्घयेत् । महर्षिभिश्व देवैश्च सत्यार्थाः शपथाः कृताः ॥ जवनो नृपतिः क्षीणो मिध्याशपथमाचरन् । वसिष्ठ वर्षमध्ये सान्वयः किल भारत ॥ 'अन्धः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत् । रौरवस्य स्वयं द्वारमुद्घाटयति दुर्मतिः ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषाः ॥ आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं
यमश्च ।
अव रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ एवं तस्मादभिज्ञाय सत्यार्थशपथांश्चरेत् । वृथा हि शपथान्कुर्वन्प्रेत्य चेह विनश्यति || इदं सत्यं वदामीति ब्रुवन् साक्षी भवान्यतः । शुभाशुभफलं देहि शुचिः पादौ रवेः स्पृशेत् ॥ अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः । मां संस्पृशंस्तथा वैश्यः शूद्रः स्वगुरुमेव च ॥ मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम् । कोशस्य रूपं पूर्व ते व्याख्यातं पाण्डुनन्दन ॥ (१) स्कन्दपु. ( कौमारिकाखण्ड ) अध्याय: ४३, ४४.
१९६%
विप्रवर्ज तथा कोश वर्णिनां दापयेन्नृपः । यो यद्देवताभ्रक्तः पाययेत्तस्य तं नरम्ः ॥ समभक्तं च देवानामादित्यस्यैव पाययेत् । सर्वेषां चोदेवानां स्नापयेदधात्रकम् ॥ स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम् । त्रिसप्तरात्रमध्ये च फलं कोशस्य निर्दिशेत् ॥ अतः परं महादिव्यविधानं शृणु यद्भवेत् । संशयच्छेदि सर्वेषां धाष्टर्यात्तद्दिव्यमेव च ॥ सशिरस्कं प्रदातव्यमिति ब्रह्मा पुराऽब्रवीत् । महोग्राणां च दातव्यमशिरस्कमपि स्फुटम् ॥ साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत् । नवा घटं देयं नोष्णकाले हुताशनम् ॥ वर्णिनां च तथा फालं तन्दुलं मुखरोगिणाम् ॥ कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम् ।
कमर्हन्ति सर्वे धर्म्यं निरत्ययम् ॥ न व्याधिमरके देशे शपथान्कोशमेव च । 'दिव्यान्यासुरकैर्मन्त्रैः स्तम्भयन्तीह केचन ॥ प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान् । दिव्यानां स्तम्भकान् ज्ञात्वा पापान्नित्यं महीपतिः ॥ विवासयेत्स्वका द्रष्ट्रा हि लोकस्य कण्टकाः । तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत् ॥ ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः । प्राग्दृष्टदोषान् स्वल्पेषु दिव्येषु विनियोजयेत् ॥ महत्स्वपि न चार्थेषु धर्मज्ञान् धर्मवत्सलान् । न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ॥ श्रद्दध्यात्पार्थिवस्तेषां वचनादेव भारत । ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्य विचक्षणः ॥ क्रोध लोभात्कारश्च स्वयमेव प्रदुष्यति । तस्मात्पापिषु दिव्यं स्यात्तत्रादौ प्रोच्यते घटे ॥ सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे । यज्ञियस्य तु वृक्षस्य स्थाप्यं स्यान्मुण्डकद्वयम् ॥ स्तम्भकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम् ।
हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम् ॥ अन्तरं तु तयोः कार्यं तथा हस्तचतुष्टयम् । मुण्डकोपर, काष्ठं च दृढं कुर्याद्विचक्षणः ॥ चतुर्हस्तं तुलाकाष्ठमत्रणं कारयेत्स्थिरम् । खदिरार्जुनवृक्षाणां शिंशपाशालजं त्वथ ॥