________________
प्रकीर्णकम् — नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः ।
मनुः
पेण यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । पादं पशु योषिच्च पादार्ध रिक्तकः पुमान् ॥ (१) नदीतीरे यानं गन्त्रीशकटादि तेरे पणं दाप्यम् । माण्डपूर्णानामुत्तरत्रोपदेशाद्रिक्तभाण्डानां यानानां यानद्रव्यानयनार्थमुत्तार्यमाणानामयं राजभागः । पौरुषवाह्यो भारो द्रव्यानयनार्थमानीयमानोऽर्धपणं दाप्यः । पशुर्गो महिष्यादिः पादं स्त्री च, रिक्तको न किञ्चिद्यो गृहीतवान् भारं स पुमान् पादार्धं दाप्यः । रिक्तस्य पुंसो नदीलङ्घनसामर्थ्यसंभावनया लाघवादल्पमादानम् । स्त्री, अशक्तत्वात्स्वयं तैरणे, बहु दाप्यते, तरे तरनिमित्तम् । मेधा. (२) भाण्डपूर्णानि यानानीति वक्ष्यति । अतो रिक्तं गन्त्र्यादि तरमूल्यं पण राज्ञा दाप्यम् । एवं पुरुषवाह्यो भारोऽर्धपणं दाप्यः । गवादिश्व पशुः स्त्री च पणचतुभगं दापनीयः । भाररहितो मनुष्यः पणाष्टभागं दाप- । नीयः । * गोरा.
(३) पशुः छागो मेष इत्यादि: । वि. भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित्पुमांसश्चापरिच्छदाः ॥ (१) भाण्डं द्रव्यं वस्त्रव्रीह्यादि तेन पूर्णानि यानानि सारतस्तायें तारार्थ दाप्यानि । यदि महार्घ वस्त्रादि तत्र बह्वारोपितं तदा बहु दाप्यानि अथ व्रीह्यादिना नातिसारेण तदाऽलम् । एवं नद्याः सुतरदुस्तरत्वेन कल्पना कर्तव्या । रिक्तभाण्डानि यानानि यत्किञ्चित्पण - पादांनि । भाण्डशब्दोऽत्र धनवचनः । ये च परिच्छदा कोशतो (?)ऽपरिच्छदास्ते न पादार्धमपि तु यत्किञ्चि
* ममु., मच, नन्द, भाच. गोरावत् ।
(१) मस्मृ. ८।४०४ [ पुमान् (नर: ) Noted by Jha ]; अप. २।२६३ तरे दाप्यं (तरे [रं] दाप्यः ) पौ (पु) तरे (तरम् ) रिक्तकः ( द्विकर: ); विर. ६४० पूर्वार्धे (पणं याने तरं दद्यात्पौरुषेऽर्धपणं तरम् ) रिक्तकः ( रिक्तिकः ); वीमि. २।२६३ दाप्यं पौरुषो ( दाप्यः पौरुषे ); विता. ५८६ पौ (पु); समु. ९१ पौ (पु).
१९४५
ततोऽधिकं न्यूनं वा, अत्र न शक्यो नियमोऽतः कल्पनैव शास्त्रार्थः । मेधा.
(२) द्रव्यपूर्णानि गन्त्र्यादीनि द्रव्यगतोत्कर्षापकर्ष - गुरुलघुभावापेक्षया तरमूल्यं दाप्यानि । पुमांसश्च परि च्छदार्हा वणिक्प्रभृतयोऽपि अपरिच्छदा आयाता यत्कि ञ्चिद्दापनीयाः । अन्यस्य पुंसः पादार्धं रिक्तकः पुमान्' इत्युक्तं, अत्र नियमस्य कर्तुमशक्यत्वात् । एतावदेवो - पदेशार्थ, एवं द्रव्यरहितानि मञ्जूषादिनि भाण्डानि यत्किञ्चित् स्वयं दाप्यानि । गोरा.
(३) भाण्डपूर्णानि पण्यद्रव्यपूर्णानि । रिक्तभाण्डानि चर्मभाण्डादीनि । अपरिच्छदाः परिकरशून्याः । अत्र यानादीनां दापनं तन्नेतृपुरुषदापनपरम् । मवि.
. (२) मस्मृ. ८।४०५; मिता. २।२६३; अप. २।२६३; . विर. ६४०; वीमि २।२६३; विता. ५८६; समु. ९१. १ तरेण पादं दा. २ तरेण. ३ चारेण तदा.
(४) पण्यद्रव्यपूर्णानि शकटादीनि द्रव्यगतोत्कर्षापेक्षया तरं दाप्यानि । द्रव्यरहितानि च गोणीकम्बलादीनि, यत्किञ्चित्स्वल्पं तार्य दाप्यम्। अपरिच्छदा दरिद्राः उक्तपदार्थदानापेक्षया यत्किञ्चिद्दापनीयाः । *ममु. (५) सारतः तार्य भाण्डसारूप्येण तार्य तरः, भाण्डानि भाररहितानि यानानि यत्किञ्चिद्द्रव्यं तत्काल - संनिहितं तार्य दाप्यानि परिहितयत्किञ्चित्ताम्बूलादिकं तार्य दाप्याः ।
नन्द.
'दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ (१) पारावारोत्तारणे पूर्व दानम् । अयं नावा ग्रामान्तरगमने । दीर्घाध्वनि योजनादिपरिमाणेन गन्तव्ये । यथादेशं यस्मिन् देशे यत्तरिदानं नाविकैः स्थापितं तदेव । यथाकालं कालो वर्षादि बहूदकस्तत्रान्यन्मूल्यम् । स्वल्पोदकायां सरिति चिरेण ग्रामप्राप्तौ नाविकानामधिकतरायासवतामधिकमूल्यं, तरमूल्ये कारणे कार्यशब्दस्तरो भवेदिति । यावद्यावद्दीर्घो देशस्तावत्तरपणो वर्धते । एतच्च नदीतीरेषु विद्यात् । समुद्रे सागरे नास्ति तरलक्षणम् । न शक्यते लक्षयितुं कति योजनानि नौर्व्यूढा येन तदनुसारेण मूल्यं कल्प्यते । नदनदीषु शक्यते ज्ञातुमयं पन्था योजनमात्रो द्वियोजन इति । तत्र हि तत्र ग्रामाः
* विर., मच., भाच. ममुवत् ।
. . (१) मस्ट. ८ ४०६, विर. ६४०; बाल. २।२६३; समु. ९१.