________________
प्रकीर्णकम्
संबध्यते । नृपाश्रयं दुष्टचेष्टोपेताश्रयान्तरसापेक्षनृपाश्रयम् । एकाश्रयव्यवहाराभावात् प्रकीर्णकं प्रकीर्णकव्यपदेशयोगिनं, तद्योगश्च विप्रकीर्णानां नृपाश्रयाणामेकत्र संनि वेशात् । स्मृच. ३३१ (२) यद्यपि मनुष्यमारणादिव्यवहारा अपि नृपाश्रिता एव तथापि तेषु वादिप्रतिवादिभ्यां स्वस्वपक्षेषु दर्शितेषु विचार्य तयोरेकतरस्यापराधिनो राजानुशासनम् । प्रकीर्णक तु शिरोवादिनं विनाऽपि चरादिमुखाद्वर्णा श्रमिणां दोपं श्रुत्वा विचार्य तेषां यथाविहितं दण्डं विधायें पथि स्थापनमित्येवास्य तेभ्यो भेदः । दवि. २५९.६०
(३) पूर्वेपु सप्तदशसु प्रकरणेषु व्यवहारस्य चतुर्व्यापित्वं प्रतिपादितम् । चतुर्व्यापित्वं नाम अर्थिप्रत्यर्थिसभ्यराजरूपान् अवयवान् चतुरो व्याप्नोतीति । अत्र प्रकीर्णकाख्ये राजैकनियतत्वमिति, संगतिः । एष इति सप्तदशविवादपदात्मकः । सवि. ४९६ पेड्भागकर शुल्कं च गर्ते देयं तथैव च । संग्रामचौरभेदी च परदाराभिमर्शकः || गोत्राह्मणजिघांसा च शस्यव्याघातकृत्तथा । एतान् दशापराधांस्तु नृपतिः स्वयमन्विषेत् ॥ . निष्कृती नामकरणमाज्ञासेधव्यतिक्रमः । वर्णाश्रमविलोपश्च वर्णसंकरलोपनम् ॥ "निधिर्निष्कुल वित्तं च दरिद्रस्य धनागमः । एतांश्चारैः सुविदितान् स्वयं राजा निवारयेत् ॥ अनाम्नातानि कार्याणि क्रियावादांश्च वादिनाम् । प्रकृतीनां प्रकोपश्च संकेतश्च परस्परम् ॥
(१) व्यक. १६४; विर. ६२२ ( ) पद्माग (सद्भाग) मर्शक: (मर्दनम् ); दवि. २६३ गकर ( गस्तर ) चतुर्थपादं विना.
(२) व्यक. १६४९ विर. ६२३ ( = ); दवि. २६३ व्याघात ( घातन ) चतुर्थः पादः.
(३) व्यक. १६४ विलोपश्च ( विरोधश्च ); विर. ६२३ (= ); दवि. २६३ श्रमविलो ( श्रमाणां लो ).
1
१९४१
अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते । उपायैः सामभेदाद्यैरेतानि शमयेन्नृपः ॥ अत्र भागपदं प्रनष्टाधिगतसुवर्णादिपरं, तत्र राज्ञः प्रड्भागग्रहणसंबन्धात् वैश्वदेवमन्नमितिवत् । आज्ञासेधव्यतिक्रमः राजाज्ञया वादिनोर्यस्य आसेधोऽवरोधस्तस्य ताभ्यामतिक्रमणं तच्च व्यवहारवर्गे स्फुटम् । निधिर्द्विविधो वक्ष्यमाणलक्षणः । निष्कुल वित्तमुच्छन्नबन्धोर्मृतस्य धनं संबन्धिनो ग्राहकस्य दण्डहेतुरित्यर्थः । दरिद्रस्य धनागम आकस्मिकः, अन्यमुपायं विना निध्यादिलाभनिश्चयात् दण्डहेतुः । दवि. २६३
देश: दिवपालनम्
* देशजातिकुलानां च ये धर्माः प्राक्प्रवर्तिताः । तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा || जनापरक्तिर्भवति बलं कोशश्च नश्यति || उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥ मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपा नार्यः स्पृश्या नृणां रजस्वलाः ॥ खशजाताः प्रगृह्णन्ति भ्रातृभार्यामभर्तृकाम् ! अनेन कर्मणा नैते प्रायश्चित्तदमाहकाः ॥ कात्यायनः प्रकीर्णकपदस्य लक्षणं तद्भेदाश्व
पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् । आहृत्य परतन्त्रार्थनिबद्धमसमञ्जसम् ॥ ष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् । अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् ॥ राजधर्मान् स्वधर्माश्च संदिग्धानां च भाषणम् । पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् ।।
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ. १०१ ) द्रष्टव्यः । स्मृतिचन्द्रिकायां आचाराध्याये देशधर्मप्रकरणे (पृ. १० ) एते श्लोकाः समुपलभ्यन्ते ।
(४) व्यक. १६४९ विर. ६२३ निष्कुल (निष्फल ) प्रवर्तते ( प्रकीर्त्यते ).
(= ); दवि. २६३ पू.
(५) व्यक. १६४; विर. ६२३ ( = ); दवि. २६३ वादांश्च (वादाश्च ).
(१) व्यक. १६४; विर. ६२३ ( = ); दवि. २६३
(२) व्यक. १६३ न्त्रार्थ ( न्त्राच्च ); विर. ६२२.
(३) व्यक. १६३; विर. ६२२.
(४) व्यक. १६४ च भाषणम् (विशेषणम् ) उत्तरार्धे