________________
१९३६
व्यवहारकाण्डम्
राजशासनं लोकैर्नातिक्रमणीयम् । राजदण्डप्रयोजनम् । राजशासनप्रामाण्यम् ।
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः । दीप्तिमत्त्वाच्छुचित्वाच्च यदि स्यान्न पथश्च्युतः।
यदि राजा न सर्वेषां नियतं दण्डधारणम् । : कुर्यात्पथ व्यपेतानां विनश्येयुरिमाः प्रजाः ॥ ब्राह्मण्यं ब्राह्मणो हन्यात् क्षत्रियः क्षात्रमुत्सृजेत् । स्वकर्म जह्याद् वैश्यश्च शूद्रः सर्वान् विशेषयेत् ॥ राजानश्चेन्नाभविष्यन् पृथिव्यां दण्डधारणे । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ सतामनुग्रहो नित्यमसतां निग्रहस्तथा । एष धर्मः स्मृतो राज्ञामर्थश्चापीडयन् प्रजाः ॥ न लिप्यते यथा वह्निर्दहन् शश्वदिमाः प्रजाः । तथा न लिप्यते राजा दण्डं दण्ड्येषु पातयन् ॥ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । ते यद् ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् ॥ राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् । न तस्याज्ञां व्यतिक्रम्य संतिष्ठेरन् प्रजाः क्वचित् ॥ रक्षाधिकारादीशत्वाद् भूतानुग्रह दर्शनात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ विगुणोsपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां विगुणोऽप्येवंपूज्य एव नराधिपः ॥ राज्ञामाज्ञाभयाद्यस्मान्न च्यवेरन् पथः प्रजाः । व्यवहारादतो ज्ञेयं संवृत्तं राजशासनम् ॥ स्थित्यर्थं पृथिवीपालैश्चरित्रविषयाः कृताः । चरित्रेभ्योऽस्य तत्प्राहुर्गरीयो राजशासनम् ॥ तपः क्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः । तस्मात्तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥ देवकार्यकरणात् देवतामयो राजा, तस्य कर्तव्यानि पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च + ॥ * 'अनादिश्चाप्यनन्तश्च' इत्यारभ्य 'तपः क्रीताः प्रजा राज्ञा इत्यन्तानां लोकानां व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८७) द्रष्टव्यः ।
+ 'पञ्च रूपाणि' इत्यारभ्य 'तस्य वृत्तिः प्रजारक्षा' इत्यमतानां लोकानां व्याख्यानं स्थलांदिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८८ ) द्रष्टव्यः ।
कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः । प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥ यदा तेजः समालम्ब्य विजगीषुरुदायुधः । अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥ विगतक्रोधसंतापो हृष्टरूपो यदा नृपः । प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥ धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥ यदातिथिगुरुप्राज्ञान् भृत्यादीनवनीपतिः । अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ तस्मात्तं नावजानीयान्नाक्रोशेच्च विशेषतः । आज्ञायां चास्य तिष्ठेत मृत्युः स्यात्तद्व्यतिक्रमे ॥ तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् ॥ ब्राह्मणसेवा राजधर्मः
ब्राह्मणानुपसेवेत नित्यं राजा समाहितः । संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे + ॥ ब्राह्मणस्य विशेषाधिकाराः ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः । प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् ॥ अयं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । भैक्षहेतोः परागारे प्रवेशश्चानिवारितः ॥ समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् । अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया ॥ नदीष्ववेतनस्तारः पूर्वमुत्तारणं तथा । तरेष्वशुल्कदानं च न चेद् वाणिज्यमस्य तत् ॥ वर्तमानोऽध्वनि श्रान्तो गृहनेकाशनः स्वयम् । ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलिकान् ॥ नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् । न सोपधान्नानिमित्तं न दातारं प्रपीड्य च + व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८८ ) द्रष्टव्यः ।
X ' ब्राह्मणस्यापरीहारो' इत्यारभ्य ' वर्तमानोऽध्वनि ' इत्यन्तानां लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५९१ ) द्रष्टव्यः ।
(१) नासं. १९।३८; नास्मृ. २०।४० न च (नापि ) उत्तराधें (नोपसन्नान्निर्निमित्तं दातारं न प्रपीड्य च ).