________________
प्रकीर्णकम्
प्रमाणमित्याह विष्णु: - 'अत्र राज्ञो हृदयमेव प्रमाणम्' इति । अत एवाह कालिदासः - 'सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः' इति । प्रायश्चित्तव्यतिक्रम इत्यस्यार्थः -- प्रायश्चित्तकरणव्यतिक्रमः । तद्व्यतिक्रमे प्रायश्चित्तं कारयितव्यमिति प्रायश्चित्तकरणस्य राजैकनियतत्वात् राज्ञैव प्रायश्चित्तं कार्यमिति । तथा च देवल:- 'कृच्छ्राणां दापको राजा निर्देष्टा धर्मपालक:' इति । महापापेषु कृछाणां प्रायश्चित्तानां दापको राजा भवति । ब्रह्महत्यादिप्रायश्चित्तेषु राजाज्ञां विना द्विजाद्यैः प्रायश्चित्तं न प्रवर्तयितव्यमित्यर्णवकारः ।
प्रतिग्रहविलोपश्चेति प्रतिग्रहशब्देन स्वाध्यायग्रहणं लक्ष्यते । परकृतोपसर्गात्त्रैविद्यवृद्धांनामाक्रोशं वेदाध्ययनविषयं कृत्वा तत्परिपालनं कर्तव्यम् । तस्य राजैकनियतत्वात् ।
लोप आश्रमिणामपीति, अस्यार्थः- आश्रमिणां ब्रह्मचारिगृहिवानप्रस्थयतीनां तद्विशेषाणां कुटीचकबहूदकहंसपरमहंसानां एकतीर्थ्यादीनां लोपः तद्धर्मलोपः स च निर्वाह्यः । यतीनां मध्ये यस्तु भ्रष्टः सतु राज्ञो दास इति पूर्वमेव प्रतिपादितत्वात् तदेतद्विषयं न भवतीत्यव - गन्तव्यम् ।
सर्वसंकरदोषः स्पष्ट एव । तद्वृत्तिनियमः सोऽपि स्पष्टः । न दृष्टं यच्च पूर्वेष्विति । अयमर्थः- यस्तु ग्रामेऽभिशस्तः प्रत्यर्थी नास्ति ग्रामीणास्तु अभिशाप इति वदन्ति तत्र राज्ञा निर्णय: कार्य इत्याद्यूह्यम् । सवि. ४९६-९
(५) राजाश्रया व्यवहाराः प्रकीर्णकेऽस्मिन् विवादपदे । एते व्यवहाराः - राजाज्ञाप्रतीघातस्तस्य यत्कर्म तत्करणं स्वयं निग्रहकरणं तेन वा यत् कर्म कर्तव्यं एवं चैवं चेति । एते एवमादयः । पूर्वेषु च बादेषु यन्नोक्तमृणादानादिषु परीक्षोपायादि तत्सर्वे प्रकी. के द्रष्टव्यम् । यथैवैते दोषा न संभवन्ति, तथा कर्तव्य1 मित्येष संक्षेपः ।
नाभा. १९।१-४ (पृ. १७३ )
ब्य. कां. २४३
१९३५
राशा चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्ध। च्च निवारणीयः
राजा त्ववहितः सर्वानाश्रमान् परिपालयेत् । उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतीस्तथा ॥ यो यो वर्णोऽवहीयेत यश्चोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि* ॥ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् *|| राजेति । चतुर्भिः सामादिभिः । गतार्थः शेषः । यो य इति । यो यो वर्ण: स्वमार्गादपहीयेत उत्सृजेत्, यो वोद्रेकं गच्छेत् तं तं नियम्यानुगृह्य स्वमार्गे स्थापयेत् ।
"
अशास्त्रोक्तेष्विति । अशास्त्रोक्तेषु प्रवर्तमानेष्वनुरूपं दण्डं धारयेत् । नाभा. १९।५-७ ( पृ. १७३ ) श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तन निवर्तनात्मकम् श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत् प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥ न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्यये निवेशयेत् ॥ राज्ञा शवर्तितान् धर्मान् यो नरो नानुपालयेत् । दण्ड्यः स पापो वध्य लोपयन् राजशासनम् ।
कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि आयुधान्यायुधीयानां वाह्यादीन् वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतत् न राजा हर्तुमर्हति ॥
* स्थलादिनिर्देशः दण्डमातृकाप्रकरणे (पृ. ५८६ ) द्रष्टव्यः । + स्थलादिनिर्देशः दर्शनविधिप्रकरणे (पृ. ९० ) द्रष्टव्यः । ' न्यायापेतं ' इत्यस्य नाभा. व्याख्यानं दण्डमातृकाप्रकरणे (पृ. ५८६ ) द्रष्टव्यम् । व्याख्यानान्तराणि च दर्शनविधौ कात्यायने (पृ. १०४ ) द्रष्टव्यानि ।
- स्थलादिनिर्देशः दण्डमातृकाप्रकरणे (पृ. ५८७) द्रष्टव्यः । x व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाम करणे ( पू. ५९०-९१ ) द्रष्टव्यः ।