________________
. १८९६
व्यवहारकाण्डम्
तत्र कृपौ गावो भवन्ति । तत्र जाया भवति । तदेव | प्राच्यवन्तैते वै देवानां संक्रमाः श्रेयाँसं श्रेयाँस `धर्मरहस्यं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकोऽयं लोकमभ्युत्क्रामति य एवं वेदैतद्वै देवानाँ सत्यदृष्टिगोचरोऽर्य ईश्वरो वि चष्टे विविधमाख्यातवान् । मनभिजितं यदामन्त्रणं तस्मादामन्त्रण सु प्रातर्गऋसा. च्छेत्सत्यमेव गच्छति तस्मादामन्त्रणं नाहुत एयात्तस्मादामन्त्रणे नानृतं वदेद्वह्निर्वै नामदनपचन आस्य वह्निर्जायते य एवं वेद गृहा गार्हपत्यो गृहवान् भवति य एवं वेद धिष्ण्या आहवनीय उपैनं यज्ञो नमति य एवं वेद सप्रथा मध्याधिदेवनं प्रथते प्रजया पशुभिर्य एवं वेदानाप्त आमन्त्रणं नैनमाप्नोति य ईप्सति य एवं वेद ।
5
'त्रिर्वा इदँ विराड् व्यक्रमत गार्हपत्यमाहवनीय सभ्यं तद्विराजमापदन्नं वै विराडन्नं वावैतदापन्मध्याधिदेवने राजन्यस्य जुहुयाद्वारुण्य ऋचा वरुणो वै देवानां राजा राज्यमस्मा अवरुन्धे हिरण्यं निधाय जुहोत्यग्निमत्येवं जुहोत्यायतनवत्यन्धोऽध्वर्युः स्याद्यदनायतने जुहुयाञ्शतमस्मा अक्षान् प्रयच्छेत्तान् विचिनुयाञ्शतायुर्वै पुरुषः शतवीर्या आयुरेव वीर्यमाप्नोति ग्रामस्य तदहः सभायां दीव्येयुस्तस्याः परुपि न हिस्युस्ताँ सभासद्भया उपहरेत्तया यद्गृहीयात्तद्ब्राह्मणेभ्यो देयं तत्सभ्यमन्नमंवरुन्धे ।
तेन स्प्येनाधिदेवनं कुर्वन्ति तत्र पष्ठौहीँ M विदीव्यन्त आशाँ वा एष उपाभिषिञ्चत आशा पष्ठौद्याशामेवास्मा अकस्ततश्चतुःशतमक्षाणवोह्याह । उद्भिन्न राज्ञः । इति चत्वारो वै पुरुषा ब्राह्मणो राजन्यो वैश्यः शूद्रस्तेषामेवैनमुद्भेदयति ततः पञ्चाक्षान् प्रयच्छन्नाह दिशो अभ्यभूदयमितीमा एवास्मै पञ्च दिशोऽन्नाद्याय प्रयच्छति क्षेत्रं ददाति तेन क्षेत्रे धृतो भवति वरं वृणीते सोऽस्मै कामः समृध्यते यत्कामो भवति मङ्गल्यनाम्नो ह्वयि यत्पूर्वं व्याहार्ष तन्नेन्मोघमसंदित्यसा अमुष्य पुत्रोऽमुष्यासौ पुत्र इति नामनी व्यतिषजति स्वर्गस्य लोकस्य समष्टयै ।
अभिभूरस्येतास्ते पञ्च दिशः कल्पन्ताम् । (१) मैसं. १६/११. (२) मैसं. ४४६. (३) शुमा. १०।२८; शुका. ११३८ । ३ रस्ये (रस्य यानामे).
'भित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । नि वो नु मन्युर्विशतामरातिरन्यो | भ्रूणां प्रसितौ न्वस्तु ।।
हे अक्षाः यूयं मित्रं कृणुध्वम् । अस्मासु मैत्रीं कुरुत । खल्विति पूरण: । नोऽस्मान् मृळत सुखयत च । नोऽस्मान् धृष्णु धृष्णुना । तृतीयार्थे प्रथमा । घोरेणा: सह्येन माभि चरत मा गच्छत । किञ्च वो युष्माकं मन्युः क्रोधोऽरातिरस्माकं शत्रुर्नि विशतां । अत्मच्छत्रुषु तिष्ठतु । अन्योऽस्माकं शत्रुः कश्चिद् बभ्रूणां बभ्रुवर्णानां युष्माकं प्रसितौ प्रबन्धने नु क्षिप्रमस्तु भवतु । ऋसा द्यूतविधि: निरुप्तँ हविरुपसन्नमप्रोक्षितं भवत्यथ मध्याधिदेवनमवोक्ष्याक्षान्न्युष्य जुहोति । निषसाद धृततो वरुणः परत्यास्वा । साम्राज्याय सुक्रतुरिति त्रिर्वै विराड् व्यक्रमत गार्हपत्यमाहवनीयं मध्याधिदेवनं, विराज एवैनं विक्रान्तमनुविक्रमयति प्रत्येव तिष्ठति गच्छति प्रतिष्ठां धर्मधृत्या जुहोति धर्मधृतमेवैनं करोति सवितारं धारयितारं, गां घ्नन्ति तां विदीव्यते तां सभासद्भय उपहरन्ति तेनास्य सोऽभीष्टः प्रीतो भवति, प्र नूनं ब्रह्मणस्पतिरित्या मन्त्रणे जुहोति मन्त्रवत्या वैश्वदेव्या, मन्त्रमेवास्मै गृह्णाति तमभिसमेत्य मन्त्रयन्ते । सह वै देवाश्च मनुष्याश्चौदनपचन आसँस्ते मनुष्या देवानत्यचरँ तेभ्यो देवा अन्नं प्रत्युह्य गार्हपत्यमभ्युदक्रामस्ताँस्तस्मिन्नन्वागच्छंस्ते मनुष्या एव देवानत्यचरं स्तेभ्यो देवाः पशून् प्रत्युह्याहवनीयमभ्युदक्रामस्ताँ - स्तस्मिन्नन्वागच्छंस्ते मनुष्या एव देवानत्यचरँ स्तेभ्यो देवा यज्ञं प्रत्युह्य सभामभ्युदक्रामस्तांस्तस्यामन्वागच्छंस्ते मनुष्या एव देवानत्यचरस्तेभ्यो देवा विराजं प्रत्युह्यामन्त्रणमभ्युदक्रामस्तांस्ततो नानु
(१) ऋसं. १०।३४।१४. (२) कासं. ८1७; कसं. ७१४.