________________
'स्त्रीसंग्रहणम्
वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् । * मिता. (३) अथ परस्त्रीसंभोगात्मके संग्रहणे निमित्ते पुरुषस्य ग्राह्यतायां कारणमाह – पुमानिति । संग्रहणे परस्त्रिया सह मिथुनीभावे निमित्ते दण्डयितुं पुमान् ग्राह्यः । केन हेतुनेत्यपेक्षित उक्तं- केशाकेशि, परस्त्रिया सह परस्परकेशग्रहणवत्या क्रीडया पुमान् ग्राह्य इत्यन्वयः 1 बहुव्रीहिसमासात्मकं तृतीयान्ता (न्त)वृत्तीच्समासान्तं केशाकेशीत्यव्ययम् । न केवलमयमेव हेतु:, किन्तु सद्यः संभूतानि परस्परमिथुनीभावाभिलाषादुत्पन्नानि दन्तनखक्षतादीनि चिह्नानि सुरत (ता) - व्यभिचारीणीति, तैरपि हेतुभिर्ग्राह्यः । उक्तहेत्वभावेऽपि द्वयोः स्त्रीपुंसयोः सिद्धो मिथुनीभाव आवयोरित्येवंरूपायां संप्रतिपत्तौ सत्यामपि ग्राह्यः ।
अप.
(४) तत्रादौ संग्रहणस्य मिथुनीभावस्वरूपज्ञापकमाह - पुमानिति । केशाकेशि परस्पर केशग्रथननीव्याद्याकर्षणं, अदेशकाले निर्जननिशीथादौ संभाषा सहावस्थानं च यथा स्यात्तथा परस्त्रिया संग्रहणे मिथुनीभावे पुरुषो ग्राह्यः, तन्मैथुनकर्तृत्वेन निश्चेयः । सद्य एव कामाबातैर्नखक्षतादिभिश्चिद्वैश्च ग्राह्यः । द्वयोः स्त्रीपुंसयोस्तथा प्रतिपत्तौ परस्परमैथुनभावयोरित्येवं संप्रतिपत्तौ च ग्राह्यः । नीवी परिधानग्रन्थिः, स्तनप्रावरणं बन्धनांशुकं, सक्थिनिरूढाः केशाश्च, एषामवमर्शनं यथा स्यात् । चकारेण गन्धमाल्यप्रेषणादिसमुच्चयः । एवकारेणाऽन्यथासिद्धिशङ्कया उक्तस्थलेषु व्यवच्छेदः । + वीमि (५) द्वयोरित्यनेनान्यतरेण प्रतिपन्नेऽपि व्यभिचारे न निश्चयः ।
व्यम. १०८
'नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकालसंभाषं सह । वस्थानमेव च X ॥
* पमा, विता. मितावत् ।
+ उत्तरश्लोकं संमील्येदं व्याख्यानं कृतम् । विर., व्यप्र. बीमिवद्भावः । X वीमि.व्याख्यानं पूर्वश्लोके द्रष्टव्यम् ।
(१) यास्मृ. २।२८४; अपु. २५८/६९-७० सविथ ( नाभि ) मर्श ( मर्द ); विश्व. २।२८९ सक्थि ( नाभि ) भाष ( भाषां ); मिता. सहावस्थान ( सहैकासन ); अप. सहाव ( सहैक ); व्यक. १२४ सक्थि... नम् ( मूरुकेशाग्रब्य. कां. २३५
१८७१
(१) अन्यतरानिच्छायां तु पुमान् योषिद्वा- 'नीवीस्तनप्रावरणनाभिकेशावमर्शनम् । अदेशकालसंभाषां सहावस्थानमेव च ॥ स्त्री निषिद्धा शतं दण्ड्या कुर्वती द्विशतं पुमान् । अनिषेधे तयोर्दण्डो यथा संग्रहणे तथा । ' नीव्यादिस्पर्शनादेशकालसंभाषणसहावस्थानादि पुंसा निवारिता स्त्री कुर्वती शतं दण्ड्या । स्त्रिया निवारितः पुमान् द्विशतं दण्ड्यः । द्वयोरपि त्वन्योन्यमिच्छया संग्रहणोक्त एव दण्डः । नीवी रशनापरिवर्तिकादेशः । रहोविवक्षया संभाषणमदेशकालसंभाषणम् । स्पष्टमन्यत् । विश्व. २।२८९-९०
(२) यः पुनः परदारपरिधानग्रन्थिप्रदेश कुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच्चाशङ्क्य - मानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाह मनु:--‘यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयात्किंचिन्न हि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् । 'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्वे संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजङ्गजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम्- 'दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । पूर्वं मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ॥' इति । * मिता. (३) संग्रहणे ग्राह्य इत्यनुवर्तते । यः परस्त्रीणां नीव्यादिस्पर्श करोति, यत्र देशे च काले च परस्त्रिया सह भाषमाणः शिष्टैर्न गर्ह्यते ततोऽन्यो देशः कालश्वादेशकालम् । तत्र यः परस्त्रीसंभाषणं कुरुते, यश्चैकत्र
* विर., पमा, रत्न, व्यप्र., व्यउ, विता. मितावत् । दर्शनम् ); विर. ३८१-२ सक्थि ( मूरु ) मर्श (दर्श ); पमा. ४६३ भाषं सहाव ( भाषा सबैक ); रत्न. १३२ अपवत् ; नृप्र. २०६ पमावत्; वीमि अपवत्; व्यप्र. ३९८ अपवत्; व्यउ १३५ अपवत्; विता. ७९९ रुविथ ( जड्ङ्घा ) शेषं अपवत् ; राकौ. ४८४ अपवत् ; समु. १५३ पमावत्.