________________
व्यवहाराकांप
२४४४
वैश्यां, क्षत्रियः शूद्र *तदा तस्य संनिरोधो बन्धनं सर्व स्वहरणं वा अपराधमहत्त्वामहत्वाभ्यां व्यवस्था कार्या । संवत्सरतिरोधितस्यः सर्वस्वापहरणं दण्डो वैश्ये "वैश्ये सूर्व्वस्वदण्डः स्यादि ति मनुवचनात् । विर् २९००१,३१ 1. भविषयवैश्ययोरन्योन्यस्त्रयभिगमने दण्ड्यानुभौ । अत्र विज्ञाने यथाक्रमं सहस्रशतपणात्मकौ दण्डौ वेदितव्यौः । यथाह मनुःविषयश्वेत क्षत्रिणां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मश्यामगुमायां तावुभौ दण्डमतः ॥' इत्याह । भारुचिस्त्वन्यथा व्याचच्छेवैयस्य भार्यायां य क्षत्रियः व्रजति तस्यैव भायायां वैश्यो व्रजति चेच्छतपणात्मको दण्डो वेदितव्यः । तथा अत्यस्य यस्य कस्यचिद्वैश्यस्य भार्यायां क्षत्रियो गच्छति सहस्रपणान् दण्ड्यः । क्षत्रियायां वैश्यो गच्छन् सहस्रपणान् दण्ड्य इति । सवि. ४७९ कन्यादूषणे वर्णानुसारेण दण्डविधिः, केन्यायाम सकामायां द्व्यङ्गुलच्छेदो दण्डः । उत्तमायां वधो जघन्यस्य । समायां शुल्कमाभरणं 1. द्विगुणं च स्त्रीधनं दत्त्वा प्रतिपद्येत ।
सकामायां दण्डः षट्शतरूपो मनूक्तो द्व्यङ्गुलच्छेदसहकारी आसुरविवाहोक्तदानवत्, द्विगुणं स्त्रीधनं शुल्कं च कन्यायै तद्बन्धुभ्यश्व दत्त्वा तां गृह्णीयात्, समायामिच्छन्त्यामिति शेषः । इदमप्यङ्गुलिसाध्यमैथुनविषयम् । हरिहरस्तु द्व्यङ्गुलपरिमाणलिङ्गच्छेद X विर. ४०३
इत्याह ।
* अत्र ब्राह्मणीं वैश्यः, क्षत्रियां शूद्र इति वक्तव्यम् । X विचि, दवि. विरवत् ।
(१) सवि. ४७१.
१२७
(२) अप. २।२८८ 'दण्ड: + (च) समायां + ( सकामायां च ) पद्येत + ( स्व [ स ] कन्याम् ); व्यक. दण्ड: + ( च ) पद्येत + ( स्वकन्याम् ); विर. ४०२ द्विगुणं च ( च द्विगुणं ) पद्येत ( पाद्येत ); विचि. १७६ ( कन्या ... जघन्यस्य० ) समायां ... पद्येत ( समां शुल्कमाभरणं द्विगुणं स्त्रीधनं च दत्त्वा प्रतिपद्यते ) शंख ; दवि. १८२ दण्ड: + (च) (समा... पद्येत० ) : १८४ ( कन्या ... जघन्यस्य ० ) प्रतिपद्येत (प्रपद्येत कन्याम् ); वीभि. २।२९४ ( कन्या ... ..... जवन्यस्य ० ) समायां ( समां ) शंख: ; सेतु. २७५ ( कन्या ... जघन्यस्य ० ) समायां ( समां ) च स्त्रीधनं (स्त्रीधनं च ) शंख:;
या स्त्रीकृतकस्वा दण्ड:
... या स्त्री योन्यङ्गुलिप्रवेशेन कन्यां दूषयेत् तां शिरसो मुण्डनं कृत्वा गर्दभेन् राजमार्गे गमनं कारयेत् । 11 gfors Si कौटिलीयमर्थशास्त्रम् 13. कन्या
3.
12:
12
कन्याप्रकर्म । सवर्णामप्राप्तफलां कन्यां प्रकुर्वतो हस्तवश्चतुःशतो वा दण्डः । मृतायां वधः । प्राप्तफलां प्रकुर्वतो मध्यमा प्रदेशिनीवधो द्विशतो वा दण्डः । पितुश्चावहीनं दद्यात् । न च प्राकाम्यम काम्रायां लभेत सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियास्त्वर्धदण्ड || परशुल्कावरुद्धायां हस्तवधश्चतुःशतो वा दण्डः, शुल्कदानं च ।
।
सप्तार्तवप्रजातां वरणादूर्ध्वमलभमानां प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात् । ऋतुप्रतिरोधिभिः स्वाम्यादपक्रामति । त्रिवर्षप्रजातार्तवायास्तुल्यो गन्तुमदोषः । ततः परमतुल्योऽप्यनलङ्कृतायाः । पितृद्रव्यादाने स्तेयं भजेत । 5 कैन्याप्रकर्मेति, सूत्रम् । कन्यायाः योनिक्षतेन दूषणमित्यर्थः । दण्डप्रस्तावात् तन्निमित्तो दण्डविधिरिहोच्यते । सवर्णामित्यादि । अप्राप्तफलां अनुद्भिन्नपुष्पाम् । मृतायां योनिक्षतवशेन प्रमीतायां सत्याम् । प्राप्तफलामित्यादि । मध्यमाप्रदेशिनीवधः ज्येष्ठातर्जन्योश्छेदः । पितुश्च, अवहीनं नष्टं तत्प्रार्थितं दद्यात् । न चेत्यादि । अकामायां कन्यायां प्राकाम्यं इच्छापूर्ति, न च लभेत । अतो दण्डमात्रलाभफलं तद्रमणमित्युपदेशः । सकामायामिति । इच्छन्त्यां तस्यां चतुष्पञ्चाशत्पणो दण्डः । स्त्रियास्तु, अर्धदण्डः सप्तविंशतिपणः । परशुल्कावरुद्धायामिति । परशुल्कग्रहणप्रतिबद्धायां कन्यायां हस्तवधः, चतुःशतो वा दण्डः, अर्थात् प्रकुर्वतः । शुल्कदानं च पूर्वदत्तशुल्काय परस्मै कर्तव्यं, पक्षद्वयेऽपि ।
सप्तार्तवप्रजातामिति । सप्त आर्तवानि प्रजातानि
विव्य. ५४ ( कन्या ... जघन्यस्य ० ) च स्त्रीधनं (स्त्रीधनं च ) पद्येत ( पादयेत् ) शंख : .
(१) विव्य. ५५ शङ्खः.
(२) कौ. ४।१२.