________________
स्त्रीसंग्रहणम्
(१) द्विजस्त्रीगमने इति शेषः । कटो वीरणः । | निमित्तान्यपकर्षति । विर. ३९५ (२) राज्ञोऽयमुपदेशः । मरणान्तिकं चैतत् । कटः कटप्रकृतिद्रव्यं वीरणानि । उक्तं च-- ' शूद्रश्चेद्ब्राह्मणीमभिगच्छेत् वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत्' इति । बौवि. ( पृ. १३६ )
अथाप्युदाहरन्ति— अब्राह्मणस्य शारीरो दण्डः संग्रहणे भवेत् । सर्वेषामेव वर्णानां द्वारा रक्ष्यतमा धनात् ॥ अब्राह्मणः क्षत्रियः वैश्यश्च । तयोः शारीरो दण्डः 1 - प्रक्षेपः कर्तव्यः । क ? संग्रहणे पारदार्ये । निगुप्त ब्राह्मणीगमने मतिपूर्वे वैश्यो लोहितदर्भैर्वेष्टयित्वाऽग्नौ ' प्रक्षेप्तव्यः । राजन्यः शरपत्रैरिति । अथ प्रपञ्चःसर्वेषामिति । अपीति शेषः । बौवि. (पृ. १३६-७ ) चारणदाररङ्गावतारस्त्रीषु गमने दण्डाभावः ने तु चारणदारेषु न रङ्गावतारे वधः । संसर्जयन्ति ता ह्येतान्निगुप्तांश्चालयन्त्यपि ॥ अब्राह्मणवध उक्तः । अंत्रापवदति- न त्विति । चारणदाराः देवदास्यः । रङ्गावतारः पण्यस्त्रियः । तासु संग्रहणे वधो न कर्तव्यः । येन ताः संसर्जयन्ति संबन्धयन्ति आत्मना निगुप्तान् रक्षितानपि पुंसो द्रव्यलिप्सया । - तानेव क्षीणद्रव्यांश्चालयन्ति उत्सृजन्ति च । एवंस्वभाव`त्वादासां तद्गमने प्रायश्चित्तमप्ययमेव । 'पशुं वेश्यां च यो गच्छेत् प्राजापत्येन शुद्धयति इति । तथाऽन्यत्रापि - 'जात्युक्तं पारदार्य च गुरुतल्पत्वमेव च । चारणादि`स्त्रीषु नास्ति कन्यादूषणमेव च ॥' इति । बौवि. (पृ. १३७) 1 स्त्रीणां परपुरुषदूषितानां अदुष्टत्वम्
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुरितान्यपकर्षति || अथ नानाचीजायतनत्वादपवित्रं स्त्रीक्षेत्रम् । ततस्तत्रोत्पन्नमपि क्षेत्रजगूढोत्यन्नकानीन सहोढ पौनर्भवाख्यमपत्यमप्यपवित्रमेतन्मूत्रच्छर्दिवदसंव्यवहार्यमित्याशङ्कयाह-स्त्रियः पवित्रमिति । परपुरुषसंसर्गविषयाणि मानसानि वाचिकानि च दुरितानि पापानि । न पुनर्हिंसादि(१) बौध. २।२।६०-६१. (२) बौध. २२/६२. (३) बौध. २।२।६३.
१८४५
बौवि. (पृ. १३७)
सोमः शौचं ददत्तासां गन्धर्वः शिक्षितां गिरम् । अग्निश्च सर्वभक्ष्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥
तासां स्त्रीणां सोमः शौचं दत्तवान् । यत एव देवता ताभ्यो वरं ददौ तस्मात्ताभिर्यदशौचं क्रियते तद्भर्त्रा | नैवाऽवेक्षणीयम् । देवताप्रसादप्रसङ्गादिदमन्यदुच्यतेगन्धर्वः शिक्षितां गिरं भाषणप्रकारम् । अतोऽनुचितभाषणेऽपि तासु क्षान्तेन भवितव्यम् । तथा चोक्तं पात्र - लक्षणे 'स्त्रीषु क्षान्तम्' इति । अभिश्च सर्वभक्ष्यत्वं सर्वेभग्यत्वं दत्तवान्, यत एवं देवताभ्यो लब्धवराः स्त्रियः तस्मात् निष्कल्मषाः विगतकल्मषाः काञ्चनसमाः, अपराधेष्वपि न त्याज्या इत्यभिप्रायः ।
बौवि. (पृ. १३७-८)
वसिष्ठः
शूद्रादीनां उच्चवर्णस्त्रीगमने दण्ड: शूद्रश्चेद्ब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रनौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णं खरमारोप्य महापथमनुसंत्राजयेत् पूता भवतीति विज्ञायते । वैश्यश्चेद्ब्राह्मणीमधिगच्छल्लोहितदर्भेर्वेष्टयित्वा वैश्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां गौरं खरमारोप्य महापथमनुसं ब्राजयेत् पूता भवतीति विज्ञायते । राजन्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत्, ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां श्वेतं खरमारोप्य महापथमनुसंत्रा जयेत् पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च राजन्यावैश्ययोः ।
(१) बौध. २।२।६४.
(२) वस्मृ. २१/१-६ ( ख ) वपनं ( वापनं ) समभ्यज्य नग्नां कृष्णं ...... संत्रा ( अभ्यज्य नग्नां खरमारोप्य महापथमनुत्रा ) वैश्यश्चेद्ब्राह्मणीमधिग ( वैश्यश्चेद्ब्राह्मणीमभिग ) गौर खर (गोरथ ) राजन्यम ......... वपनं ( राजन्यमग्नौ प्रास्येत् ब्राह्मण्याः शिरोवापनं ) समभ्यज्य नग्नां श्वेतं...... विज्ञायते ( अभ्यज्य नग्नां रक्तखरमारोप्य महापथमनुव्राजयेत् ); व्यक. १२६ वपनं नग्नां कृष्णं ( वापनं कृत्वा सर्पिषाभ्युक्ष्य