________________
स्त्रीसंग्रहणम्
वेदाः भ्रातृभगिनीविवाहः तन्निषेधश्च
*ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥
न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥
न यत्पुरा चक्रमा कद्ध नूनमृता वदन्तो अनृतं पेम । गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥
गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा संविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥
को अस्य वेद प्रथमस्याह्नः क ई ददर्श क इह प्र वोचत् । बृहन्मित्रस्य वरुणस्य धाम 'कदु ब्रव आनो वीच्या नॄन् ।
11
यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय । जायेव पत्ये तन्वं रिरिच्यां वि चिहेव रथ्येव चक्रा ॥
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥
* 'ओ चित् सखायं' इत्याद्यारभ्य 'अन्यमू षु' इत्यन्तानां चतुर्दशमन्त्राणां सायणभाष्यं स्थल निर्देशश्च स्त्रीपुंधर्मप्रकरणे ( पृ. ९७५-७८ ) द्रष्टव्यः ।
.
रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुमिमीयात् । दिवा पृथिव्या मिथुना सबन्धू यमी - र्यमस्य बिभृयादजामि |
आघाता गच्छानुत्तरा युगानि यत्र जामय: कृणवन्नामि । उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निऋतिर्निगच्छात् । काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिष्टग्धि ॥
न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्य: स्वसारं निगच्छात् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्टयेतत् ॥
बतो बतासि यम नैव ते मनो हृदयं चाविदाम | अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥
अन्यमूषुत्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा सवा तवाधा कृणुष्व संविदं सुभद्राम् ॥ पितापुत्रीविवाह:
प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् । पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥
A
यथा स्वाशेन भगवान् रुद्रः प्रजापतिर्वास्तोष्पतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । यस्य प्रजापतेरिष्णदेषणवद् वीरकर्मम् । लिङ्गव्यत्ययः । वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृप्रेतः प्रथिष्ट प्रथितमासीत् तद्रेतोऽनुष्ठितं प्रजापतिनापत्यार्थे निषिक्तं नर्यो नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो
(१) ऋसं. १०/६१।५.