________________
दण्डो वेदितव्यः। हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्थाविशेषः । आदिग्रहणात् ग्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः । मिता.
दण्डपारुष्यम्
(३) जातितो गुणतो वा तुल्यं परं भस्मकर्दमधूलिभियजयतो दशपणो दण्ड: । यदि पुनरमेध्यादिभिः संयोजयति तदा विंशतिपणः । अत्र यदि परस्त्रीमात्रे, तथा जातितो गुणतो वोत्कृष्टेषु नरेषूक्तमपराधं कुर्यात्तदा पूर्वोक्ताद्दण्डाद्विगुणेो दण्डः कार्यों विंशतिपणः स्यात् । यत्र विंशतिपणस्तत्र चत्वारिंशत्पणः स्यात् । जातितो वा गुणतो वा हीनविषय उक्तस्यार्धे दण्डनीयः । मदादिना लुप्तज्ञानस्यापराधाभावतो दण्डाभाव: । अमेध्यं वसाशुक्रादिशरीरमलात्मकम् । पाणिः पादापरभागः । निष्ठयुतं निष्ठीवनम् ।
अप.
(४) पाणिश्चरणस्य पश्चिमो भागः । चरण एव तात्पर्यमस्येत्येके । * विर. २६१ (५) अथात्र दण्डपारुष्यनिश्चयानन्तरकृत्यं दण्डं यथायथमाह प्रकरणसमाप्तिपर्यन्तेन - भस्मेति । भस्मपङ्करजोभिः प्रत्येकं परस्य स्पर्शे योजने तत्कर्तुर्दशपणमितो दण्डः | अमेध्यमश्रुप्रभृति, पाणिश्वरणस्य पश्चाद्भागः, निष्ठयतं मुखश्लेष्म एतैः परस्य स्पर्शने कृते तत्कर्तुस्ततो दशपणाद्विगुणो दण्डः । एवं दण्डः समेषु सवर्णेषु द्रष्टव्यः । परभार्यासूत्तमेषु च वर्णेषु विषये तादृशापराधे कृते समपूक्ताद्दण्डात् द्विगुणो दमः । हीनेषु वर्णेषु विषये तादृशापराधे समेषूक्तस्य दण्डस्याधों दमः कार्यः । मोहोऽनभिज्ञता, मदो मद्यादिभिः । आदिपदेनोन्मादपरिग्रहः । एतैर्भस्मादिस्पर्शने कृतेऽपि दण्डाभावः । चकारेणोत्तरोत्तरं त्रिगुणचतुर्गुणौ दण्डाविति समुच्चीयते । वीमि.
अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधि: 'विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उद्गुर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥
१८१५
(१) अयं चान्यो विशेष:- विप्रपीडाकरमिति । उद्गूर्यानिपाते प्रथमसाहसो दण्डः । प्रहारायोद्गूरणेनैव विस्रम्भेणाब्राह्मणस्य ब्राह्मणशरीरस्पर्शनेऽर्धदण्डः । स्पष्टमन्यत् । विश्व २।२२०
* शेषं मितावत् ।
(१) यास्मृ. २।२१५; अपु. २५८।१२ धिंक : (र्धकः ); विश्व. २।२२० संस्पर्शे ( स्पर्शने ); मिता. ; अप; व्यक. . कां. २२८
(२) प्रातिलोम्यापराधे दण्डमाह-- विप्रपीडाकरमिति । ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव । ' येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥' इति (मस्मृ. ८।२७९ ) । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानात् वैश्यस्यापि क्षत्रियापकारिणोऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्गूणं वधार्थमुद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः । शूद्रस्य पुनरुद्गूर्णेऽपि हस्तादिच्छेदनमेव । 'पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् (मस्मृ. ८२८०) । उद्गूरणार्थं शस्त्रादिस्पर्शने तु तदधिकः प्रथमसाहसादर्धदण्डो वेदितव्यः । भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्योक्तन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद एव । 'अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेनृपः । अवमूत्रयतो मद्रेमवशर्धयतो गुदम् ॥' इति मनुस्मरणात् (मस्मृ. ८।२८२) । + मिता. (३) तुशब्दपाठे ब्राह्मणाङ्गच्छेदव्यवच्छेदः । वीमि. उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्डपारुष्ये दण्डाः उद्गूर्णे हस्तपादे तु दशविंशतिकौ दौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥
+ अप, विर, दवि., वीमि, व्यप्र. मितावत् । १०५ विर. २६७ अपुवत् पमा ४१७; रत्न. १२२ करं ( करे ) शेर्पा अपुवत् व्यनि. ४९२ संस्पर्श ( स्पर्शने ) कि: ( र्धक: ); दवि. २५० अपुवत्; नृप्र. २७३ उदगू (उद्गी) शें तु (शेंन) धिंक: (कम् ); सवि. ४८१ स्य तु (स्य च ) शेषं अपुवत् वीमि स्य तु ( स्य च ); व्यप्र. ३७३; व्यउ. ११४ र्धिकः ( र्धकम् ); व्यम. १००; विता. ७३६; समु. १६२.
(१) यास्मृ. २।२१६; अपु. २५८।१३ शस्त्रे ( शास्त्रे ); विश्व. २।२२१; मिता; अप; व्यक. १०५ हस्त (हस्ते)