________________
९८००
व्यवहारकाण्डम्
महाजनस्येति । जनसमूहस्य, एकं जनं, नतः, प्रत्येकं द्विगुणो दण्डः एकस्यैकं घ्नतो यो दण्डस्तद्विगुणो दण्ड: ।
कौ..
कलहानुप्रवेशलक्षणापराधकारिणः अपराधः पर्युषित पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्य इत्येतावता मोक्षणं न भवति, किन्तु चिरादपि सोऽभिइत्याचार्याः । योज्य एवेत्येवं स्वमतमाह-- नास्त्यपकारिण इत्यादि ।
नास्त्यपकारिणो मोक्ष इति कौटल्यः । कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति । इत्याचार्याः । नेति कौटल्यः । पूर्व पश्चाद् वागतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलहोपलिङ्गनं वा ।
घाताभियोगमप्रतिब्रुवतस्तदहरेव पश्चात्कारः । कलहे द्रव्यमपहरतो दशपणो दण्डः । क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः । स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः । वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां
तच्च
पूर्वश्च साहसदण्डः ।
परकुड्यमभिघातेन क्षोभयतस्त्रिपणो दण्डः । छेदनभेदने षट्पणः । पातनभञ्जने द्वादशपणः प्रतीकारश्च ।
दुःखोत्पादनं द्रव्यमन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः । प्राणाबाधिकं पूर्वः साहसदण्डः ।
क्षुद्रपशूनां काष्ठादिभिर्दुःखोत्पादने पणो द्विपणो वा दण्डः । शोणितोत्पादने द्विगुणः ।
महापशूनामेतेष्वेव स्थानेषु द्विगुणो दण्डः,
हृतद्रव्यायत्तीकरणं वा, नाभियोज्यः अभियोक्तुमर्हो न भवति । इत्याचायाः ।
समुत्थानव्ययश्च ।
पुरोपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः । क्षुद्रशाखाच्छेदने द्वादशपणः । पीनशाखाच्छेदने चतुर्विंशतिपणः । स्कन्धवधे पूर्वः साहसदण्डः । समुच्छित्तौ मध्यमः ।
पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डः । पुण्यस्थानतपोवनश्मशानद्रुमेषु च ।
सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । त एव द्विगुणा दण्डाः कार्या राजवनेषु च ॥ पर्युषित इति । चिरातीतः, कलहः, अनुप्रवेशो वा (१) कौ. ३।१९.
कलह इति । कलहे, पूर्वागतः पूर्वावेदकः, जयति । कुतः हि यतः, अक्षममाणः प्रधावति परकृतमाबाधमसहमानो धर्मस्थायावेदयितुं त्वरित: पूर्व गच्छति, अर्थात् पश्चादागतः पराजयते । इत्याचार्याः ।
नेति कौटल्य इति । पूर्वागमनं पश्रादागमनं वा यद्य किञ्चित्करं, किं तर्हि तत्त्वनिर्णयसाधनमित्याकाङ्क्षायामाह पूर्व पश्चाद्वेत्यादि । असाक्षिके घातः कलहोपलिङ्गनं वेति । साक्ष्यभाये वातदर्शनेन तत्त्वनिर्णयः घातादर्शने लिङ्गैः कलहस्याभ्यूहनम् ।
घाताभियोगमिति । घातविषयमभियोगं, तदहरेव तस्मिन्नेव दिने, अप्रतिब्रुवतः पश्चात्कारः पराजयः ।
कलह इत्यादि । कलहायमानयोर्द्वयोर्द्रव्यमपहरतोऽन्यस्य दशपणो दण्डः । अपहृतद्रव्यप्रत्यानयनं तु सिद्धमेव । इह 'द्विशतपणो दण्डः' इति तु भाषानुसारेण पाटोऽनुमेयः ।
क्षुद्रकेत्यादि । क्षुद्रकद्रव्यहिंसायां क्षुद्रकद्रव्याणां पुष्पफलादीनां हिंसायां कलहकारिभिरूपहनने, तच्च हिंसितं क्षुद्रद्रव्यं च स्वामिने देयमिति शेषः । तावच्च तत्परिमाणं द्रव्यं च दण्डो भवति ।
स्थूलकेत्यादि । कांलायसादिस्थूलकद्रव्यहिंसायां तच्च, द्विगुणः तद्रव्यद्विगुणो दण्डश्व |
वस्त्राभरणेत्यादि शोणितोत्पादने द्विगुण इत्येतदन्तं सुबोधम् । 'पातनभञ्जने द्वादशपण:' इति कचिन्न पठ्यते ।
महापशूनामिति। गवादीनां एतेष्वेव स्थानेषु दुःखोत्पादनादिषु क्षुद्रपशूक्तेषु विषयेषु द्विगुणो दण्डः । समुत्थानव्ययश्च तत्स्वस्थीकरणार्थो व्ययश्च देयः ।
पुरोपवनेत्यादि । प्ररोहच्छेदने पल्लवच्छेदने, स्कन्धवधे प्रघाणभञ्जने । समुच्छित्तौ उन्मूलने । शेषं स्पष्टम् ।
पुष्पफलच्छायावद्गुल्मलतास्विति । पुष्पादिमत्सु