________________
स्तेयम्...
१६९७
(५) किञ्च अनिदानिति । भक्तं भक्तसंयुक्तं गरदादि दातॄन् । शस्त्रावकाशदान् शस्त्रैः शरीरस्याववकाशदातॄन् तच्छेदकान् । संनिधातॄन् मोस्य, मुष्ट ज्ञात्वापि क्रयादिकारिणो वा भक्तदायकादीनामुक्तत्वात् । ईश्वर इत्यनेन समर्थ: । सामन्ता अपि तथा कुर्युरिति ध्वनितम् ।
मच..
(६) मोषस्य मोषितद्रव्यस्य समोषसाधनस्य वा । नन्द.
स्तेनातिदेशः
प्रामेष्वपि च ये केचिच्चौर राणां भक्तदायकाः । भाण्डावकाशदाचैव सर्वास्तानपि घातयेत् ॥ (१) भाण्डं मूलधनं शस्त्रादिक्रयणार्थम् । अवकाशः शयनादिस्थानम् । एतच्च चौरताज्ञाने सति । मवि.
(२) ग्रामादिष्वपि ये केचिच्चौराणां चौरत्वं ज्ञात्वा भक्तदा:, चौर्योपयुक्तभाण्डादि गृहावस्थानं ये ददति तानपि नैरन्तर्याद्यपराधगोचरापेक्षया घातयेत् ।
ममु.
अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् । संनिधातॄंश्च मोषस्य हन्याच्चौरानिवेश्वरः ॥ (१) शीतापनोदनाद्यर्थं येऽमिं ददति, शस्त्रं कर्तरि - कादि, मोषस्य संनिधातारः सर्वे चौरवत् ज्ञेयाः । शस्त्रावकाशदग्रहणं प्रागुक्तमप्युपसंहारार्थमुच्यते । मेधा.
(२) अग्निदानं गृहदाहाद्यर्थं ततः करिष्यतीति ज्ञात्वाऽपि । संनिधातॄन् मोषस्थानसमीपनेतॄन् । मोषस्य चोरस्य । वि. (३) ग्रन्थिभेदादिकारिणो विज्ञाय अभिभक्तशस्त्रावस्थानप्रदान् मुष्यत इति मोषश्चौरधनं तस्यावस्थापकान् चौरवद्राजा निगृह्णीयात् ।
ममु.
(४) एकं भक्तपदं सिद्धान्नपरं, अपरं भक्तपदं तद्व्यतिरिक्ताशनीयपरं भाण्डं शस्त्रान्यचौर्योपकरणं, अवकाशोऽवस्थानदेशः; अग्निश्चौर्यानुकूलः संनिधातॄंश्च . मोस्य, मोषणीयस्य द्रव्यस्यापहारानुकूलसंनिधानकारकान् । एतच्च भयाज्ञानविरहेण नेयम् । विर. ३३९
(१) मस्मृ. ९।२७१; अपु. २२७/५२ वकाश (रकोश); अप. २।२७६ दाचै (दांचै ); व्यक. ११७; विर. ३३९ घात ( ताड ); रत्न. १२६; व्यनि. ५०७ अपवत्, याज्ञवल्क्यः विता ७९३ भाण्डा ( भक्ता) उत्त; बाल. २।२७६; समु. १५२.
(२) मस्मृ. ९।२७८ रानि ( रमि ) [ मोषस्य ( मोक्षस्य ) Noted by Jha ]; अप. २।२७६; व्यक. ११७; विर. ३३९ निवे (नरे ); विचि. १४४; व्यनि. ५०९ इन्यात् ( शिष्यात् ); दवि. ८२; बाल. २।२७६ रानिवे'श्वर: (रमिवेश्वरम् ); सेतु. २४७; समु. १५८ भक्त (गर) विधा ( विधा ) यमः; विव्य. ५२. "१ मोक्षस्य. २ तारः + ( कर्तारः ),
(७) मोषस्य मुषितस्य वस्तुनः, संनिधातॄन् समीपवर्तिनः, ईश्वरः चौरानिव शिष्यात् क्षिपेत् । भाच.
'योऽदत्तादायिनो हस्तालिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ (१) अतिदेशोऽयम् । यो ब्राह्मणचौरानुपजीवति स चोरवद्दण्ड्यः । याजनाध्यापनेनापि । अपिः क्रियान्तरसूचकः । तेन प्रतिग्रहप्रीतिदाया अपि गृह्यन्ते । क्षत्रियादीनामन्यथैव वार्त्तादिस्वकर्मणा चोरधनं गृह्णताम् । ब्राह्मणग्रहणं तु मया किल धर्मेणार्जितं याजयतेत्यभिमाननिवृत्त्यर्थम् | अदत्तमादत्ते गृह्णातीत्यदत्तादायी चोरः । लिप्सेत लब्धुमिच्छेदग्रहीतास्वपि दक्षिणासु तत्संबन्धादेव चौरनिग्रहः । मेधा.
(२) अदत्तग्राहिणचौरस्य ब्राह्मणो याजनाध्यापनप्रतिग्रहैरपि परकीयं धनमण्वपि गृह्णाति सोऽपि चौरो विज्ञेयः । अतश्वासौ चौरवद्दण्ड्यः । * गोरा.
(३) अदत्तादायिनश्चौरस्य हस्ताद्यो ब्राह्मणो याजनाध्यापनप्रतिग्रहैरपि परकीयधनं ज्ञात्वा लब्धुमिच्छेत् स चौरवच्चौरतुल्यो ज्ञेयः, अतः स इव दण्ड्यः । ममु.
(४) अदत्तादायिन श्चोरस्य लिप्सेतेति ग्रहणपरं
* मवि., भाच. गोरावत् ।
(१) मस्मृ. ८|३४०; मिता. २।११४ नेना (नाद्वा ); अप. २।२७६ योऽत्र ( अद ); व्यक. ११८ नापि (नैव ); विर. ३४०; पमा. ४८२ ( = ); विचि. १४४; दवि. ८४; सवि. २८७ योऽद ( अद ) नो हस्ता ( नश्चोरा ) ब्रा ( ब ) स्मृत्यन्तरम् ; व्यप्र. ४१५- ६; विता. २७९ ( = ); राकौ ४४२; बाल. २।२७६; सेतु. २४७; समु. ९८१ विव्य. ५२.