________________
१६९६
विक्रग्रस्थानांनि, चतुष्पथा, प्रख्यातवृक्षमूलानि, जनसमूहस्थानानि, जीर्णवाटिकाः, अटव्यः, शिल्पगृहाणि, शून्यगृहाणि, आम्रादिवनानि, कृत्रिमोद्यानानि । एवंप्रकारान् देशान् सैन्यैः पदातिसमूहैः स्थावरजङ्गमैरेकस्थानस्थितैः प्रचारिभिश्चान्यैः चारैः तस्करनिवारणार्थ चारयेत् । प्रायेणैवंविधे देशेऽन्नपानस्त्रीसंभोगस्वप्रहत्रीद्यन्वेषणार्थे तस्करा अवतिष्ठन्ते ।
व्यवहारिकाण्डम्
ममु.
(२) अपूपशाला कन्दुकशाला । वेशो वेश्यागृहं, मद्यान्नविक्रया मद्यान्नविक्रयस्थानानि । चैत्यवृक्षाः प्रौढपादपाः । सभाया उपात्तत्वात्तदन्यमेलके समाजपदं, कदाचित्तत्रापि चौरसंभवात् । प्रेक्षणानि प्रेक्षणीयनृत्यादिस्थानानि । कारुकावेशनानि शिल्पिगृहाणि । गुल्मैः पदातिसमूहैः अस्यैव विशेषणं स्थावरजङ्गमैः । तेन स्थितैः संचरद्भिः पदातिसमूहैः चारैश्च तस्करप्रतिषेधार्थ संभविचौराणि स्थानान्यनुचारयेदित्यर्थः । विर. ३३६-७
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः । विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥
(१) तत्सहायैस्तेषामेव तस्कराणां सहायतां गतैः । सम्यक् तेषामनुगतैः । नानाकर्मप्रवेदिभिः तत्कर्मप्रवेदिभिः । नानाकर्मप्रचारिभिरिति क्वचित्पाठः । उत्साहयेत् चौर्य कुर्म इत्युक्त्वा उद्यमं कारयेत् । पूर्वतस्करैः अन्यराष्ट्रे कृतचौर्यैः । मवि.
(२) तेषां साहाय्यं प्रतिपद्यमानैस्तच्चरितानुवृत्तिभिः संधिच्छेदादिकर्मानुष्ठानवेदिभिः पूर्वचौरैः चाररूपैः चारमायानिपुणैस्तस्करान् जानीयात् उत्सादयेच्च । ममु. (३) स्वानुगतैः आत्मवशैः । भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैव कुर्युस्तेषां समागमम् ॥
नन्द.
(१) मस्मृ. ९ । २६७; गोरा. [ त्साद (त्साह ) Noted by Jha ]; अप. २।२६८ तत्स ( तान् स ) वेदि ( वादि ) त्साद ( त्साह ) क्रमेण मनुनारदौ; मवि . ' प्रचारिभि:' इति कचित्पाठः, त्साद ( त्साह ); व्यनि. ५०५ यैरनु ( यैः स्वानु ); समु. १४९ यैरनु ( यै: सहानु ) त्साद (त्साह ); नन्द. त्साद ( त्साह ) शेषं व्यनिवत्.
(२) मस्मृ. ९।२६८ [ ज्योपदे ( ज्यप्रदे) Noted
(१) ते पूर्वचौराश्चरभूताः आगच्छतास्मद्गृहं गच्छामस्तत्र मोदकपायसादीन्यभीम इत्येवं भक्ष्यभोज्यव्याजेन, अस्माकं देशे ब्राह्मणोऽस्ति सोऽभिलषितार्थसिद्धिं जानाति तं पश्याम इत्येवं ब्राह्मणानां दर्शनैः, कश्चिदेक एक बहुभिः सह योत्स्यते तं पश्याम इत्येवं शौर्यकर्मव्याजेन, तेषां चौराणां राज्ञो दण्डधारकपुरुषाः समागमं कुर्यु - ग्रहयेयुश्च ।
ममु.
नन्द.
(२) समागमे राजपुरुषैर्ग्रहणयोग्ये देशे । 'ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥
(१) नोपसर्पेयुर्जातशङ्काः । मूलप्रणिहिता: स्वराष्ट्रस्थितप्रकृत्यादिप्रेषिताः । प्रसह्य तत्र गत्वा बलात् । मवि.
(२) ये चौरास्तत्र भक्ष्यभोज्यादौ निग्रहणशङ्कया नोपसर्पन्ति ये च मूले राजनियुक्तपुराणचौरवगं प्रणिहिताः सावधानभूताः तैः सह संगतिं भजन्ते तांश्चैौरान् तेभ्य एव ज्ञात्वा तदेकतापन्न मित्रपित्रादिज्ञातिस्वजनसहितान् बलादाक्रम्य राजा हन्यात् ।
ममु..
(३) तत्र समागमे ये यदृच्छया नोपसर्पेयुरिति । मूलप्रणिहिताः प्रणिहितमूला: ज्ञातकारणाः । भक्ष्यभोज्यापदेशेनात्मवधं जानन्त इति यावत् ।
नन्द.
ने होढेन विना चौरं घातयेद्धार्मिको नृपः ॥ सहोढं सोपकरणं घातयेदविचारयन् ।।
धार्मिको राजा हृतद्रव्यसंधिच्छेदोपकरणव्यतिरेकेण अनिश्चितचौरभावं न घातयेत् किन्तु द्रव्येण चौर्योपकरणेन च निश्चितचौरभावमविचारयन् घातयेत् । ममु.
by Jha ]; अप. २।२६८ ज्योप ( ज्याप ) क्रमेण मनुनारदौ; व्यनि ५०५ र्मा ( मों ) कुर्यु.... गमम् ( कुर्यात्तेषां समागतम् ); मच. अपवत्; समु. १४९ ज्योप ( ज्याप ) शौ ( चौ) कुर्युस्ते ( कुर्यात्ते ); नन्द ज्योप ( ज्याप ) गमम् ( गमे ).
(१) मस्मृ. ९/२६९ [ मित्र ( पुत्र ) Noted by Jha ]; व्यनि. ५०५ पूर्वार्धे (ये तत्र नोपसर्पन्ति मूलप्रणिहितान् जनान् ) सह्य ( गृह्य ); समु. १४९.
(२) मस्मृ. ९।२७०; अप. २।२७५; व्यनि. ५०५ समु. १४९.