________________
१६९४
गृह्णन्ति, भीषिकाप्रदर्शनं वा उपधिः । वञ्चकाः कितवा धनग्रहणार्थे सदा देविन इत्यर्थः । पृथगर्थे वा पैदं वञ्चकाः, विप्रलभ्भकाः । इद कार्ये वयमेव करिष्यामस्तव नौन्येऽत्रस्था इत्युक्त्वा न कुर्वन्ति, उपेत्य नानाकरैर्नानाविधैरुपायैग्रमीणान् मुष्णन्ति । शिवमाधवादयः शिवमादित्यं उपजीवन्ति । मङ्गलादेशवृत्ताः शान्त्युपदेशिका ज्योतिषिकादयः । अथवा एतां देवतां त्वदर्थेनाहं प्रीणयामि दुर्गा मार्तण्डं चेति तथा आढ्यानां धनमुपजीवन्ति । अथवा मङ्गलं तवास्त्विति वादिनः मङ्गलादेशवृत्ताः । अभद्रा भद्राः । प्रेक्षणिकाः सर्वस्य करदर्शनेन प्रशंसन्ति पुरुषलक्षणानि । मेधा.
व्यवहारकाण्डम्
(२) उत्कोचका उत्कोचग्राहिणः । औपधिकाः स्तुत्यादिकृतेनोपधिना छलेन गृह्णन्तः । वञ्चका वेषा न्तरेण भ्रममुत्पाद्य आदातारः । कितवा द्यूतकृतः । मङ्गलादेशो मङ्गलस्तुतिपाठः वृत्तं चरितं येषाम् । भद्राः सुरूपतामात्मनो विधाय स्त्र्यादिव्यामोहकाः । ईक्षणिकाः प्रेक्षणीयकर्तारो नटादयः । मवि.
(३) उत्कोच का ये कार्यिभ्यो धनं गृहीत्वा कार्यमयुक्तं कुर्वन्ति । औपाधिका भयदर्शनाद्ये धनमुपजीवन्ति । वञ्चका ये सुवर्णादि द्रव्यं गृहीत्वा परद्रव्यप्रक्षेपेण वञ्चयन्ति । कितवा द्यूतसमाह्वयदेविनः । धनपुत्रलाभादिमङ्गलमादिश्य ये वर्तन्ते ते मङ्गलादेशवृत्ताः । भद्राः कल्याणाकारप्रच्छन्नपापा ये धनग्राहिणः । ईक्षणिका हस्तरेखाद्यवलोकनेन शुभाशुभफलकथनममु.
जीविनः ।
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ (१) महामात्रा मन्त्रिपुरोहितादयो राजनैकटिकास्ते चेदसम्यक्कारिणः । चिकित्सका वैद्याः । शिल्पोपचार
(१) मस्मृ. ९।२५९ [पचार ( पकार ) Noted by Jha ]; व्यक. १०९; विर. २९१; दवि. ११८ पचार ( पकार ); समु. १४९.
४
१ उपधावनग्रहणाथें. २ पादवञ्चकाः . ३ नान्यत्र. कुर्वत उ. ५ कारणनाना. ६ ( उप०) ७ यान्त्यु. ८ तथाऽस्त्विति. ९ सर्वस्य करवर्धने अभद्रा भद्राप्रेक्षणकाः प्रशंसिपुरुषलक्षणाः । .
युक्ता चित्रपत्रच्छेदरूपकारादयः । उपचार उपायनं, अनुपयुज्यमानस्वशिल्पकौशलं दर्शयत्वाऽनुष्ठाय धनं नयन्ति, एवं पण्ययोषितो निपुणाश्चोपचारेणासत्प्रीतिदर्शनेन । असम्यक्कारिण इति सर्वत्रानुयुज्यते । मेघा.
(२) महामात्राः अमात्या राज्ञः, तथा चिकित्सका भिषजः । असम्यक्कारिणोऽयुक्तकारिणः । शिल्पयुक्ताः चित्रकारादयः । उपकारयुक्ताः केशादिसंस्कर्तारः । निपुणाः स्वस्ववृत्तिकुशलाः । पण्ययोषितो वेश्याः । मवि.
(३) महामात्रा हस्तिशिक्षाजीविनः । चिकित्सकाः चिकित्साजीविनः । असम्यक्कारिण इति महामात्रचिकित्सकविशेषणम् । शिल्पोपचारयुक्ताः चित्रलेखाद्युपायजीविनः तेऽप्यनुपजीव्यमानशिल्पोपायप्रोत्साहनेन धनं गृह्णन्ति । पण्यस्त्रियश्च परवशीकरणकुशलाः । ममु. (४) शिल्पोपकारयुक्ताः छत्रतालवृन्ताद्युपकारकारिणः ।
नन्द.
एवमाद्यान् विजानीयात्प्रकाशाँल्लोककण्टकान् । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ (१) एवमाद्यान्ं, न शक्यते धूर्तानां परद्रव्यापहीरिणां प्रकारान् संख्यातुमित्याद्यग्रहणं, तथा ह्यासक्तं कथयन्ति अवधीरयन्तीमनुरागिणीं, तथाऽभृत्यो भृत्यवदात्मानं दर्शयित्वा नयति हिरण्यं ऋजुप्रकृतेर्न चार्थभृत:, त्वं ब्रह्मा त्वं बृहस्पतिरित्युक्त्वा मूर्खाढ्यान्नयन्ति देहि प्रसादेन कतिपयैर्वाऽहोभिः प्रत्यर्पयामीति सिद्धे प्रयोजने तनुतरो भवति, प्रियवाद्यप्रियवादी संपद्यते । निगूढचारिणः । मेधा. (२) विजानीयात् किमन्याय्यं कुर्वन्तीति । प्रकाशान् धनिनः समक्षं ग्रहीतॄन् । निगूढकारिणो निह्नवेनाहर्तॄन् । आर्यलिङ्गिनो ब्रह्मचर्यादिवेषान् ।
मवि. (३) एवमादीन् प्रकाशं लोकवञ्चकान् चारैर्जानीयात् ।
(१) मस्मृ. ९।२६० माद्यान् ( मादीन् ) [ विजानीयात् (विजातीयान् ) Noted by Jha ]; व्यक. १०९; मवि चारि ( कारि ); विर. २९१; दवि. ११८; समु. १४९ विरवत्.
१ हाराणां. २ ह्यशक्यं क.
भृत्यो.
३ वधार. ४ तथा