________________
स्तेयम्
१६८७
मन्दापराधमित्यादि । अल्पापराधम् । अत्याशितं | उत्तमो दण्डः उत्तमसाहसः, कर्मणा, व्यापादनेन च अतिमात्र भुक्तान्नम् | आमकाशितं अजीर्णान्नम् ।
द्रोहचिन्तनेन च हेतुना ।
श्रीम.
तुल्यशीलपुंश्चलीप्रावादिककथावकाशभोजनदातृभिरपसर्पयेत् । एवमतिसंदध्यात् । यथा वा निक्षेपापहारे व्याख्यातम् ।
आप्तदोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावर प्रजाताम् । स्त्रियास्त्वर्धकर्म । वाक्यानुयोगो वा । .
ब्राह्मणस्य सत्रिपरिग्रहः श्रुतवतस्तपस्विनश्च । तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च कर्मणा व्यापादनेन च ।
व्यावहारिकं कर्मचतुष्कं--- षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च । चोरादीन् कथं जानीयादित्याह — तुल्यशीलेत्यादि । तुल्यशीलादिभिः तुल्यशीलाः समानवृत्ताः पुंश्चल्यो बन्धक्यः प्रावादिकाः प्रवदनचारिणः दक्षभाषा: कथावकाशभोजनदातारः कथादातारः कथकाः अवकाशदातारो भोजनदातारश्च इत्येतैः, अपसर्पयेत् अपसपैः कृतैर्जानीयात्, अर्थाच्चोरादीन् । एवमति "संदध्यात् उक्तेन प्रकारेण तान् वञ्चयेत् । ज्ञानोपायान्तरमन्यत्रोक्तं चेहातिदिशति—— यथा वेति । निक्षेपापहारे, यथा व्याख्यातं 'क्षीणदायकुटुम्बमित्यादिना निरूपितं, तथा वा जानीयादिति वाक्यशेषः ।
निश्चितापराधस्य दण्डमाह-- आप्तदोषमिति । निश्चितापराधं, कर्म कारयेत् । गर्भिण्याः स्त्रियाः प्रसूतायाश्चानतीतमासाया न दण्ड इत्याह- न त्वेवेत्यादि । स्त्रियास्त्वर्धकर्मेति । पुंसो यावद् दण्डकर्म विहितं तस्यार्ध स्त्रियाः । वाक्यानुयोगो वा वाचा परिभाषणं वा कर्तव्यं अर्धस्याप्ययोगे ।
ब्राह्मणस्येति । तस्य, श्रुतवतो विदुषः, तपस्विनश्च, सत्रिपरिग्रहः सत्रिभिः परिग्रहणं तथा परिग्रहणेन ततइतः पर्यटनक्लेशयोजनेति यावत्, अर्थाद् दण्डः । तस्यातिक्रम इति । उक्तदण्डातिरिक्तदण्डकरणे, कर्तुः, कारयितुश्च
(१) कौ. ४/८. व्य. कां. २१२.
व्यावहारिकं कर्मचतुष्कमिति । लोकव्यवहारप्रसिद्धानि चतुष्प्रकाराणि दण्डकर्माणि भवन्ति । षड् दण्डाः दण्डाघाताः षडित्येकः प्रकारः, सप्त कशाः कशाप्रहाराः इति द्वितीयः, द्वौ उपरिनिबन्धौ हस्तयोः पृष्ठतः कृत्वा संश्लेषितयोर्बन्धनं तेन सह शिरसो बन्धनं चेति द्विरूपं बन्धनमिति तृतीयः, उदकनालिका च नासायां सलवणोदकनिषेचनं च इति चतुर्थः । श्रीमू. परं पापकर्मणां नववेत्रलताद्वादशकं, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत् तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्य, एकपर्वदहनमङ्गुल्याः स्नेहपीतस्य प्रतापनमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या चेत्यष्टादशकं कर्म ।
तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधारणं च खरपट्टादागमयेत् । दिवसान्तरमेकैकं च कर्म कारयेत् ।
पूर्वकृतापदानं, प्रतिज्ञायापहरन्तं, एकदेशदृष्टद्रव्यं, कर्मणा रूपेण वा गृहीतं, राजकोशमवस्तृणन्तं, कर्मवध्यं वा राजवचनात् समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् ।
सर्वापराधेष्वपीडनीयो ब्राह्मणः । तस्याभिशस्ताङ्को लालाटे स्याद् व्यवहारपतनाय । स्तेये श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने
मद्यध्वजः ।
ब्राह्मणं पापकर्माणमुघुष्याङ्ककृतव्रणम् । कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।।
अन्यत् पापकर्मणां चतुर्दशभेदं दण्डनकर्माह — परं पापकर्मणामिति । परं उक्तचतुष्कातिरिक्तं, पापकर्मणां, नववेत्रलताद्वादशकं नवहस्तदीर्घवन्यलतया द्वादश प्रहाराः, द्वौ ऊरुवेष्टौ द्वाभ्यां रज्जुभ्यां पादयोर्वेष्टनं तेन सह शिरसोऽपि वेष्टनमिति द्विप्रकारावूरुवेष्टौ, विंशतिर्नक्तमाललताः विंशतिः करञ्जलताप्रहाराः,
(१) कौ० ४१८,