________________
स्तेयम
ग्रहाणां परस्त्रीद्रव्यवेश्मनाम भीक्ष्णप्रष्टारं कुत्सितकर्मशस्त्रोपकरणसंसर्गं विरात्रे छन्नकुड्यच्छायासंचारिणं विरूपद्रव्याणामदेशकालविक्रेतारं जातवैराशयं हीनकर्मजाति विगृह्यमानरूपं लिङ्गेनालिङ्गिनं लिङ्गिनं वा भिन्नाचारं पूर्वकृतापदानं स्वकर्मभिरपदिष्टं नागरिकमहामात्रदर्शने गूहमानमपसरन्तमनुच्छासोपवेशनमा विग्नं शुष्कभिन्नस्वरमुखवर्ण शस्त्रहस्तमनुष्यसंपातत्रासिनं हिंस्रस्तेननिधिनिक्षेपापहारप्रयोगगूढाजीविनामन्यतमं शङ्केतेति शङ्काभि
ग्रहः ।
शङ्कारूपकर्माभिग्रह इति सूत्रम् । आत्मनः परान् प्रति परेषामात्मानं प्रति चेति शङ्का द्विरूपा रूपं लोप्त्रं कर्म संधिच्छेदादि एतैर्लिङ्गैरभिग्रह: चोराणां ग्रहणमभिधीयत इति सूत्रार्थ: । गूढाजीविनां रक्षा प्रक्रान्ता । तत्र सिद्धव्यञ्जनादिभिर्ग्रहीतुं • शक्यानां गूढ़ाजीविनां ग्रहणप्रकार उक्तः, तदग्राह्याणां शङ्कारूपकर्म - भिर्ग्रहणप्रकार इदानीमुच्यते ।
सिद्धप्रयोगाद्र्ध्वमिति । सिद्धव्यञ्जनप्रयोगात् परतः, शङ्कारूपकर्माभिग्रहः, वक्ष्यत इति क्रियाध्याहारः । शङ्काभिग्रहं तावदाह-क्षीणदायकुटुम्बमिति । दाय: कुल्कमागतं द्रव्यं कुटुम्बं कृषिः तदुभयं क्षीणं यस्य तं तथाभूतं, अल्पनिषैशं भक्तव्ययापर्याप्तभृतिं कर्माननुरूपनिहीनभृतिं वा, विपरीतदेशजातिगोत्रनामकर्मापदेशं अन्यथाकल्पितदेशजात्यादिव्यवहारं प्रच्छन्नवृत्तिकर्माणं अन्याविदितवृत्यर्थकर्माणं, मांससुरादिष्वष्टसु प्रसक्तं प्रकर्षेण सक्तं, अतिव्ययकर्तारं पुंश्चलीद्यूतशौण्डिकेषु प्रसक्तं, अभीक्ष्णप्रवासिनं पौनःपुन्यप्रवासशीलं अविज्ञातस्थानगमनं क्व तिष्ठति क्व गच्छतीत्यन्याविदितस्थानगमनं, एकान्तारण्यनिष्कुट विकालचारिणं विजने वने गृहारामे च विकाले चरणशीलं प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं अन्यदर्शनागोचरे देशे सामिषे सद्रव्ये धनिकगृहनिकटदेशे वा बहुमन्त्रयन्तं बहुकृत्वो गच्छन्तं च, सद्यःक्षतव्रणानां गूहप्रतिकारयितारं व्रणकारणोद्भेदशङ्कया रहसि चिकित्सयितारं, अन्तर्गृहनित्यं गर्भगृहनित्योपविष्टं, अभ्यधिगन्तारं आगच्छतोऽभिमुखं झटिति गत्वा प्रतिनिवर्तमानं, कान्तापरं
१६८३
स्त्रीलोलं, परपरिग्रहाणां परपरिजनानां परस्त्रीद्रव्यवेश्मनां अभीक्ष्णप्रष्टारं कुत्सितकर्मशस्त्रोपकरणसंसर्ग मारणचौर्यादिगर्हितकमोंपयोगिषु शस्त्रेषु उपकरणेषु परिचयवन्तं, शास्त्रेत्यपि पाठः । विरात्रे अर्धरात्रे, छन्नकुड्यच्छायासंचारिणं छन्नं यथा भवति तथा कुड्यच्छायायां संचरणशीलं, विरूपद्रव्याणां विनष्टस्वरूपाणां द्रव्याणां, अदेशकालविक्रेतारं अदेशे अकाले च विक्रयकारिणं, जातवैराशयं, हीनकर्मजाति, विगूह्यमानरूपं छाद्यमानस्वरूपं लिङ्गेनालिङ्गिनं अनुपात्तलिङ्गिचिह्नं लिङ्गि - व्रतेन युक्तं, लिङ्गिनं वा भिन्नाचारं उपात्तलिङ्गिचिह्न वा लिङ्गितरहितं पूर्वकृतापदानं पूर्वमन्यत्र कृतचौर्य, स्वकर्मभिरपदिष्टं परदारग्रहणादिभिः ख्यातं, नागरिकमहामात्रदर्शने नगररक्षिपुरुषस्य महामात्रस्य च दर्शने, गृहमानमपसरतं स्वरूपं छादयन्तं निलीय चरन्तं च, अनुच्छ्वासोपवेशिनं तूष्णीं बहिर्भूम्यादावुपवेशनशीलं, आविनं भीतं, शुष्कभिन्नस्वरमुखवर्ण शुष्कः क्षामः भिन्नः अयथाप्रकारश्च स्वरो मुखवर्णश्च यस्य तं तथाभूतं, शस्त्रहस्तमनुष्यसंपातत्रासिनं शस्त्रपाणिपुरुषागमनभीरुकं, एवम्भूतैर्विशेषणैर्यथासंभवं युक्तं जनं, हिंस्रस्तेनादीनां हिंस्रो घातुकः स्तेनश्वोरः निधिनिक्षेपापहारो निधिनिक्षेपयोरपहर्ता वरप्रयोगः वरः क्रोधस्तन्निमित्तः प्रयोगः शस्त्रप्रयोगो यस्य स तथाभूतः गूढाजीवी प्रतीत: इत्येतेषां अन्यतमं शङ्केत । 'वरो ना भूपजामात्रोदेवादेरीप्सिते क्रुधि' इति केशवः । इति शङ्काभिग्रह इति । व्याख्यात इति शेषः । श्री. रूपाभिग्रहस्तु । नष्टापहृतमविद्यमानं तज्जातव्यवहारिषु निवेदयेत् । तच्चेन्निवेदितमासाद्य प्रच्छादयेयुः, साचिव्यकरदोषमाप्नुयुः । अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन् । न चानिवेद्य संस्थाध्यक्षस्य पुराणभाण्डानामाधानं विक्रयं वा कुर्युः ।
तच्चेन्निवेदितमासाद्येत, रूपाभिगृहीतमागमं पृच्छेत् कुतस्ते लब्धं इति । स चेद् ब्रूयाद्-दायाद्यादवाप्तममुष्माल्लब्धं, क्रीतं कारितमाधिप्रच्छन्नं अयमस्य देशः कालश्चोपसंप्राप्तः, अय(१) कौ. ४/६.
――