________________
१६८२
चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो प्रत्यादिशेत् प्रज्ञापयेत् किं कृत्वा, एष राज्ञः प्रभाव वः स्वजनः पापाचारः इति । इति अत्यल्पविषयस्यापि चौर्यस्येदं परिज्ञानं राज्ञो माहात्म्यकृतमित्युक्त्वा ।
व्यवहारकाण्डम्
उपलब्धविद्याप्रभावानामिति । एवं प्रत्यक्षदृष्टमन्त्रमहिम्नां पुरश्चरणादि पुरश्चरणप्रभृतिकं मन्त्रसिद्ध्यङ्गं कर्म, आदिशेयुः, अभिज्ञानार्थं स्मरणार्थम् । कृतलक्षणद्रव्येषु वेति । कृतस्वामिचिह्नद्रव्योपेतेषु, वेश्मसु, कर्म चौर्य, कारयेयुः, पूर्वोक्तान् गृहीतमन्त्रान् माणवान् । अनुप्रविष्टान् वा अन्तः प्रविष्टांश्च, एकत्र क्वचिद् गृहे, ग्राहयेयुः ।
कृतलक्षणद्रव्यक्रयविक्रयाधानेष्विति । कृतलक्षणद्रव्याणां मुष्टानां क्रयणविक्रयणाधीकरणावसरेषु, योगसुरामत्तान् वा भेषजयुक्तमद्यपानमत्तान् वा, ग्राहयेयुः । गृहीतान् तथाग्रहणं प्राप्तान् माणवान्, पूर्वापदानसहायान् पूर्वकृतानि चौर्याणि चौर्यसहायांश्च अनुयुञ्जीत पृच्छेत्। पुराणचोरव्यञ्जना वेति । पुरातनतस्करच्छद्मानो वा भूत्वा, चोरान् अनुप्रविष्टाः, तथैव पूर्वोक्तरीत्येव, कर्म कारयेयुः ग्राहयेयुश्च ।
गृहीतानिति । ग्रहणं प्राप्तांश्चोरान् समाहर्ता, पौरजानपदानां दर्शयेत् । किं कृत्वा, चोरग्रहणीं विद्यामधीते राजेत्याद्युक्त्वा । श्रीम.
'यं चात्रापसर्पोपदेशेन शम्याप्रतोदादीनामपहर्तारं जानीयात्, तमेषां प्रत्यादिशेद्— एष राज्ञः प्रभाव इति ।
पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकाननुप्रविष्टाः प्रभूतकूट हिरण्यकुप्यभाण्डेषु सार्थव्रज ग्रामेष्वेनानभियोजयेयुः । अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्यादनेन । अनुगृहीत लोप्त्रभारानायतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः ।
पूर्ववच्च गृहीत्वैनान् समाहर्ता प्ररूपयेत् । सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु ॥ यं चात्रेति । यं च जनं, अत्र पुरादौ, शम्याप्रतोदादीनां अपहर्तारं युगकीलकतोत्रादीनां चोरयितारं अपसर्पोपदेशेन जानीयात्, तं, एषां पौरजानपदानां,
(१) कौ. ४१५.
वनचोरग्रहणोपायमाह - पुराणचोरेत्यादि । पुराणचोरा: गोपालकाः व्याधा: श्वगणिनश्व राजपुरुषभूता इति शेषः, वनचोराटविकान् वनचोरान् अटवीचरान् पुलिन्दादींश्च, अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु प्रभूतानि प्रचुराणि कुटानि फालानि हिरण्यानि कुप्यभाण्डानि च येषु तेषु तथाभूतेषु, सार्थव्रजग्रामेषु वणिक्संघगतागतमार्गेषु गोष्ठेषु ग्रामेषु च एनान् वनचोराटविकान्, अभियोजयेयुः चौर्यायोद्योजयेयुः । अभियोगे आरब्धे सति, गूढबलैः गूढसैन्यैः, घातयेयुः । मदनरसयुक्तेन मोहजनकविषयुक्तेन, पथ्यादनेन वा पथिभोजनेन वा, घातयेयुः । अनुगृहीतलोपत्र भारान् उपगृहीतमुष्टद्रव्यभारान्, आयतगतपरिश्रान्तान् दीर्घाध्वगमनपरिखिन्नान्, अत एव प्रस्वपतः एनान्, ग्राहयेयुः। प्रहवणेषु तुष्टिभोजनदानेषु, योगसुरामत्तान् वीर्यवन्मद्यपानमत्तान् वा, ग्राहयेयुः ।
अध्यायान्ते श्लोकमाह पूर्ववच्चेति । समाहर्ता, पूर्ववत् पूर्वोक्तपुरराष्ट्रचोरवत्, एनान् वनचोराटविकानू, गृहीत्वा, राज्ञः सर्वज्ञख्यापनं 'चोरग्रहणीं विद्यामधीते राजा सर्वाश्चोरान् जानाति तत्प्रभावादिमे चोरा गृहीताः' इत्येवं सर्वज्ञत्वख्यापनं कारयन्, राष्ट्रवासिषु, प्ररूपयेद् दर्शयेत् । श्रीम.
शङ्कारूपकर्माभिग्रहः
शैङ्कारूपकर्माभिग्रहः । सिद्धप्रयोगादूर्ध्वं शङ्कारूपकर्माभिग्रहः । क्षीणदायकुटुम्बमल्पनिर्वेशं विपरीतदेशजातिगोत्रनामकर्मापदेशं प्रच्छन्नवृत्तिकर्माणं मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसतमतिव्ययकर्तारं पुंश्चलीघृतशौण्डिकेषु प्रसक्तमभीक्ष्णप्रवासिनमविज्ञातस्थानगमनमेकान्तारण्यनिष्कुटविकालचारिणं प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं सद्यःक्षतव्रणानां गूढप्रतिकारयितारं अन्तर्गृहनित्यमभ्यधिगन्तारं कान्तापरं परपरि -
(१) कौ. ४।६.