________________
१६७२
हस्त्यश्वरथगोवृषयानेषु राजपुत्रापहारवद्दण्डः । अजाविकेष्वर्धत्रयोदशपणा नकुलबिडालाप
हरणे कार्षापणाः ।
अत्र व्यासेन वाजिवारणहरणे सर्वस्वग्रहणमुक्तं अनेन त्वष्टसहस्रमुक्तमिति विरोधो वाजिवारणगौरवागौरवाभ्यां परिहार्यः । विर. ३१८
सुवर्णरजतापहारे शारीरोऽङ्गच्छेदो वा ।
शारीरो दण्डस्ताडनम् । अङ्गं कर्णादि । पञ्चाशदूनविषयं निर्धनविषयं चैतत् । विर. ३२४
अष्टशतं सीताद्रव्यापहरणे यथाकालम् । अष्टशतमष्टाधिकशतम् । सीता कृष्यमाणा तद्द्रव्यं हलकुद्दालादि, यथाकालं कर्षणसमये ।
भूमिः
विर. ३२४
कृंतकाष्ठाश्मकौलालचर्मवेत्रदलभाण्डेषु मूल्यात्पञ्चगुणस्त्रयो वा कार्षापणाः । एकचक्रापहरणे चत्वारिंशत्, शकटे त्वशीतिशतम् ।
कृतकाष्ठं घटितकाष्ठ, कौलालं कुलालनिर्मितं मृन्मयमिति यावत् । भाण्डपदमश्मादिभिः संबध्यते । एकचक्रमेकं रथाङ्गम् । चत्वारिंशत् पणा एव, अशीतिशतमशीत्यधिकशतम् । विर. ३२७ ११४ रथगो ( गोरथ ) के (१) व्यक. (केऽर्धत्रयोदशं ) हरणे + ( त्रयः ); विर. ३१८ ( अजा... कार्षापणाः० ) : ३१९ ( हस्त्य ...... द्दण्ड: ० ); दवि. १३० ( रथ० ) वृषया (वृषाय ) ( अजाकार्षापणा : ० ) ; १३२ ( हस्त्य...... द्दण्ड: ० ) केष्वर्ध ( केऽर्ध ) हरणे + ( त्रयः ).
...... पणा
(२) व्यक. ११४; विर. ३२४ रजता (रत्ना ); विचि. १३९ शंख:; दवि. १४५ विरवत् ; सेतु. २४१ शंख:
(३) व्यक. ११५ हरणे... लम् ( हारे च ); विर. ३२४; विचि. १३९ प ( भि ) शंख; दवि. १४५ हरणे ( हारे ); सेतु. २४१ प ( धि ) शंख : .
(४) व्यक. ११५ दल ( बिदल ) शतम् (तम:); विर. ३२७; दवि. १४७ ( कृत ....... कार्षापणाः ० ) पह (ह) शकटे त्वशी ( कटेऽशी ) : १४९ ( एक...... शतम् • ); सेतु. २४२ (दल०) टे त्वशी ( टेऽशी ).
वर्णविशेषकृत चौर्यदण्डविधि: '
अब्राह्मणो ब्राह्मणस्य समिदाज्येध्माद्मिकाष्ठतृणोलपपुष्पफलमूलान्यपहरन् बलादविज्ञातो वा हस्तच्छेदनमाप्नुयात् । कुशकरकाग्निहोत्रद्रव्यापहारे प्रत्यक्षतोऽङ्गच्छेदः स्यात्, अप्रत्यक्षं यथाविदितोऽयं किल्बिषीति ब्राह्मणः खरयानमवाप्नुयात् । मूत्रमौण्ड्यमितरेषां खरयानमेव च ।
वक्ष्यमाणत्वात् ।
ब्राह्मणोऽत्र यागादिपरः । अग्रे ब्राह्मण एव कर्मवियोगविख्यापनविवासनाङ्ककरणानां समिदादीन्यत्र यागार्थमानीतानि, करकः कमण्डलुः । अग्निहोत्रद्रव्याणि हवनीयादीनि, किल्विषी चौरः प्रकरणात् । मूत्रमौण्ड्यं मूत्रेण मुण्डनम् । इतरेषां क्षत्रियादीनाम् । विर. ३२९-३०
अन्यूनभावे वैश्यवत् शूद्रस्य कल्प्यम् । चौर्यशङ्कितशोधनदण्डौ
असाक्षिप्रणिहिते दिव्यम् । अथवा मित्रैः सज्जनैरात्मानं ना शोधयेदेव । स चेद्दण्ड्योऽर्थिनां चार्थ दापयेत् ।
दण्ड्यादण्डने राजदोष:
अन्नादे भ्रूणहा माष्टि पत्यौ भार्यापचारिणी । गुरौ शिष्यश्च राजनि याज्यश्च स्तेनो किल्बिषम् ॥
(१) मेधा. ८|३३३ ( कुशकरकाग्निहोत्रद्रव्याण्यपहरतोऽङ्गच्छेदः स्यात् ) शंखः, एतावदेव अप. २।२७५ पुष्प..... हरन् ( शष्पपुष्पधूपफलान्यपहरेत्) कुश + ( चर्मभाण्डं ) व्यापहारे ( व्याण्यपहरत: ) मूत्र ( सूत्र ) मेव च ( मेव ): व्यक. ११५ यथाविदितो ( यदा विदितो ) शेषे अशुद्धिबाहुल्यम्; विर. ३२९ तृणोलप ( तृणोपल ); विचि. १४३ ( ब्राह्मणस्य तु मौण्ड्यमितरेषां खरयानम् । ) शंखः, एतावदेव दवि. १५० तृणोलप ( तृणोपल ) न्यप ( थप ) बला ... वा ( वा बलादविज्ञातो ) व्यापहारे ( व्याण्यपहरेत् ) यथावि ( यदा वि ) मवाप्नु ( मानु ); सेतु. २४३ द्राज्ये ( धाद्ये ) तृणोलप ( तृण ) ज्ञातो ( शाते ) ( कुशमेव च० ).
(२) मभा. १२/४१ शंखः. (३) अप. २/ २६९. : (४) चतुर्वर्गचिन्तामणि: Vol. III Part I Page 781. [ Dharmasutra of Shankhālikhita Page 46. edited by Prof. P. V. Kane ].