________________
"तेयम्
किल्बिषशब्देनोच्यते, स्तेयकिल्बिषं स्तेयधनमित्यर्थः । तदष्टगुणं दण्डः, 'समप्रेप्सुर्दण्ड्यः' इत्यत्र दण्ड्यशब्दस्य नदीस्रोतोन्यायेनाधिकृतस्यात्र षष्ठयनुरूपार्थं दण्ड इत्येवं भवतीति । किल्बिषशब्देन वा दण्ड उच्यते । स्लेयकिल्बिषं स्तेयदण्ड इत्यर्थः । स गृहीतः स्यादष्टगुण इति । तत्र ब्राह्मणसुवर्णवर्ज द्रष्टव्यं तस्य महापातकमध्ये उपदेशाद्दण्डगौरवं भवतीति ।
मभा.
(२) उक्तः साहसदण्डः । स्तेयदण्डमाह-- अष्टापाद्यमिति 1 स्तेयं चौर्यम् । स्तेयोपात्तं द्रव्यं किल्बिषनिमित्तत्वात्किल्बिषमुच्यते । स्तेयेनोपात्तं द्रव्यमष्टगुणमापादनीयं शूद्रस्य । कर्तरि षष्ठयेषा । स्तेयकिल्विषं शूद्रोऽष्टगुणमापादयेद्राज्ञे दण्डरूपेण प्रतिपादयेदिति । तत्रैको गुणः स्वामिने देयः, शेषो राज्ञे । उक्तं च 'चौरहृतमवजित्ये 'त्यादिना । गौमि.
'द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ।
इतरेषां वैश्यादीनां स्तेयकिल्विषाणि प्रतिवर्ण द्विगुणोतण्यापादनीयानि । वैश्यस्य षोडशगुणं, क्षत्रियस्य द्वात्रिंशद्गुणं, ब्राह्मणस्य चतुःषष्टिगुणमिति । *गौम
'विदुषोऽतिक्रमे दण्डभूयस्त्वम् ।
(१) जात्युत्कर्षवद्विज्ञानोत्कर्षादपि दण्डभूयस्त्वं द्रष्टव्यं तत्स्वजातिविहितात् 'अध्यर्ध विदुषो ज्ञेयम्' इति स्मृत्य - न्तरदर्शनात् । उपपन्नं चैतत् यतोऽसौ ज्ञात्वाऽतिक्रामतीति । विदुषो दण्डभूयस्त्वमिति सिद्धे अतिक्रमग्रहणं नियमार्थं, चौर्यविषय एवेदं, न साहसविषये । प्रायश्चित्तविषयेऽपीति । एवं च ब्रुवता दण्डविधानात् प्रायश्चित्तस्यापि गुरुलघुभावकल्पनाऽस्तीति प्रदर्शितं भवति । साहसप्रकरणे च यदुक्तं ' श्रोत्रियस्यार्धदण्डः' इति तच्चोपपन्नम् ।
मभा.
* मभा गौमिवत् ।
(१) गौध. १२/१३; मिता. २।२७५ (=); मभा.; गौमि. १२/१३; दवि. ३६ विष्णुः ; विता. ७८८; समु. १५१.
(२) गौध. १२/१४; मेधा. ८ ३३७ क्रमे (क्रम ); मिता. २।२७५ (); मभा ; गौमि. १२/१४१ दवि. ३६ विष्णुः ; विता. ७८८; समु. १५१.
१६५७
(२) कस्मादिदमेवमित्याह - विदुषोऽतिक्रम इति । यथा यथा वर्णोत्कर्षेण विद्योत्कर्षस्तथा तथा विहितातिक्रमे दण्डभूयस्त्वं भवति । निषेधदोषं ज्ञात्वाऽपि प्रवर्तमानस्य दोषाधिक्यं भवति । अजानतस्त्वन्धकूपपतनवदनुग्रहोऽस्ति । गौमि.
फेल हरितधान्यशाकादाने पञ्चकृष्णलमल्पे | (१) अस्यापवादमाह फलेति । फलानामाम्रादीनां हरितधान्यस्य व्रीह्यादेः अपक्कस्येत्यर्थः, शाकस्य च मूलकादेरपहरणे माषमात्रदण्डः । कुतः 6 पञ्चकृष्णलको मात्र:' इति स्मृत्यन्तरदर्शनात् । अल्पे उदरपूरणमात्रे ॥ अधिके अन्यद्रव्ये वा अष्टापाद्यमित्येतदेव द्रष्टव्यम् ।
-
मभा.
कृष्णलं गुञ्जाबीज प्रमाणम् । 'माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य हि । कृष्णलस्तु चतुर्थांशो मास्यैव प्रकीर्तितः ॥ इति । *गौमि
दण्डानम्
गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम् ।
(१) ब्रह्मचारिप्रकरणे उक्तस्यादत्तादानप्रतिषेधस्य इदानीमपवादमाह -- गोऽग्न्यर्थ इति । गवार्थे तृणानि । अभिग्रहणेन श्रौतस्य स्मार्तस्यापि ग्रहणं न लौकिकस्य, तदर्थमेधान् काष्ठानि । वीरुधां करवीरादीनां पुष्पाणि ।
* शेषं भभावत् ।
(१) गौध. १२/१५; व्यक. ११५; मभा.; गौमि. १२।१५ ल्पे (ल्पम् ); विर. ३२५ लमल्पे ( लं मन्ये ); दवि. १४७ ( धान्य० ) मल्पे ( मन्ये ).
(२) गौध. १२/२५; मेधा. ८ ३३९ ( गो ..तीनां च० ); गोरा. ८ ३३९ ( पुष्पाणि फलानि अपरिवृतानाम् ) एतावदेव; मिता. २।१६६ थें तृणमेधान् (र्थं तृणमेधांसि ); अप. २।१६६ थे ( थीं ); मभा ; गौमि. १२/२५; मवि. ८|३३९ (अपरिवृतानाम् ) एतावदेव ममु. ८/३३९ ( गो ....... धान् ० ) चपु (पु); विचि. १४७ ( फलानि चागृहीतानि ) एतावदेव दवि. ४१ थें रुद्र ( थं तृणमेधांस्तु वीरुधो व ); मच. ८ ३३९ ( गो...... धान् ० ) परिवृता ( नृता ); विता. ६६९ ( फलानि चापरिवृतानाम् ) एतावदेवः सेतु. २५० विचिवत्; समु. १५१ ( वीरुद् ० ).