________________
सिद्धमाक्षिपतीति चेन्न, आक्षिपतु नाम, न त्वयं विधिपूर्वको हि नियमः प्रत्युत द्वेषादिति वचनाद् वैरिवधकोटिः कटाक्ष्यत इति ।
अत्रोच्यते, प्रियाधर्षिणो वचनादेवाततायित्वमातताविधे वचनादेव पापाभाव इति । एतच्च भवदेवमतमाश्रित्योक्तम् | दवि. २३८
मत्स्यपुराणम् राजप्रतिकूलसाहसिकदण्डविधि:
साहसम्
राज्ञः कोषापहन्तॄंश्च प्रतिकूलेष्ववस्थितान् । . अरीणामुपकर्तृच घातयेद्विविधैर्दमैः ।।
ब्राह्मणामन्त्रणसंबन्धिदोषे दण्डः
आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे । निष्कारणं न गच्छेत्तु स दाप्योऽष्टशतं दमम् ॥ द्विजे भोज्ये तु संप्राप्ते पापे नास्ति व्यतिक्रमः ॥
निमित्तविशेषे साहसानुज्ञा । आततायिनः । गुरुं वा तापसं वाऽपि ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नातताविधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनम् । अग्निदं गरदं चैव तथा ह्यभ्युद्यतायुधम् ॥ अभिचारं च कुर्वाणं राजगामि च पैशुनम् । • एतान् हि लोके धर्मज्ञाः कथयन्त्याततायिनः ॥ भविष्यपुराणम् निभित्तविशेषे साहसानुज्ञा
पुत्रः शिष्यस्तथा भार्या शासितश्चेद्विनश्यति । न शास्ता तत्र दोषेण लिप्यते देवसत्तम ॥
(१) दवि. ३१७.
(२) अप. २।२६३ आ (नि) तु ( त ) ; व्यक. १२०; विर. ३५९ दवि. ३०७ दमम् ( दमः ) विष्णुः ; सेतु. ३०४.
(३) दवि. ३०७. (४) बाल. २।२१.
(५) दवि. २३४; बाल. २।२१ ( गृहक्षेत्राभिहन्तारस्तथा पत्न्यभिगामिनः । अग्निदो गरदश्चैव तथैवाभ्युद्यतायुधः ॥ अभिचाराणि कुर्वाणो राजगामि च पैशुनम् । एते हि कथिता लोके धर्मज्ञैराततायिनः ॥ ). (६) दवि. २३१.
व्य. कां. २०८
१६५५
हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् । कामतोऽपि चरेद्वीर द्वादशाब्दाख्यमुत्तमम् ॥ *क्षिण्वानमपि गोविप्रं न हन्याद्वै कदाचन ॥ संग्रहकारः (स्मृतिसंग्रहः ) साहसनिरुक्तिः । निमित्तविशेषे साहसानुज्ञा । मैनुष्यमारणादीनि कृतानि प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा पुनः ॥ ननु पारुष्यद्वयस्य साहसविशेषत्वात् पदान्तरत्वेनोक्तिरयुक्ता । सत्यम् । सहसा क्रियमाणस्य साहसविशेपत्वं, छलेन पुनः क्रियमाणस्य पदान्तरत्वमेव, साहसलक्षणाभावात् । तथा चोक्तं तेनैव 'तस्यैव भेद: स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधि: साहसमाक्रम्य स्तेयमाधिश्छलेन तु ॥' आधिः क्लेशः । स आक्रम्यार्थहरणद्वारा क्रियमाणः साहसम् । छलेन पुनरर्थहरणद्वारा क्रियमाणः स्तेयमित्यर्थः । नन्वनेन स्तेयस्य भेद उक्तो न पारुष्यस्य । सत्यम् । अपृथगुद्दिष्टस्यापि भेद उक्त पृथगुद्दिष्टस्य सुतरामेव भेदो लक्ष्यत इति स्तेयमात्रस्योक्त-इत्यविरोधः । अतः पदान्तरत्वेनाप्युक्तिर्युक्तैव । अत एव संग्रहकारः - ' मनुष्यमारणादीनि कृतानि प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा पुनः ॥ ' अन्यथा पुनः यद्यप्रसभं कृतानि तदा यथाख्यानि स्तेयस्त्रीसंग्रहणवाक्पारुष्यदण्डपारुष्याख्यानीत्यर्थः ।
नन्वेवं स्तेयस्त्रीसंग्रहणयोरपि साहसात् पृथगुद्देशनं कार्यम् । सत्यम् । अत एव मनुना - ' स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च' इति पृथगुद्दिष्टम् । नारदेन तयोः प्रायेण छलेनैव क्रियमाणत्वात् पदान्तरन्वं स्फुटमेवेति साहसान्तर्भाव एवोद्देशदशायां दर्शितः, पारुष्यद्वयस्य तु प्रायेण प्रसभं क्रियमाणत्वात् पदान्तरत्वमव्यक्तमिति पृथगप्युद्देशः कृत इति सर्वमनवद्यम् । स्मृच. ७ आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम् । कलौ युगे विमान् धर्मान् वर्ज्यानाहुर्मनीषिणः ।। (१) दवि. २३५; व्यप्र. १७ ; व्यउ १० ; सेतु. १०१ द्वीर ( द्वीरो ).
(२) दवि. २४० ; व्यप्र. १८ व्यउ. ११. (३) स्मृच. ७; व्यप्र. २२३ ; समु. १४६. (४) व्यम. १०४ उत्तरार्धे ( इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिण: ) ; समु. १४७.
அசிைமுடை