________________
*lviii
डम्
विष्णुः - ( १५६९), बृहस्पतिः - (१५६९- | (१५८२) समविषमविभागनि वर्तन कालावधिः. ७०) विभागानन्तरागतविभागः.
विभागदोषे पुनर्विभागादिविधिः
[पृ. १५७० - १५७४ |
वेदाः-(१५७०–७१) भागानर्हः; सर्वे भागार्हा भागिनः कर्तव्याः; भागार्हो भागी कर्तव्य एव, अन्यथा दोषः कौटिलीयमर्थशास्त्रम् - (१५७१) ससाक्षिको विभागः कर्तव्यः ; विभागदोषे पुनर्विभागः मनुः(१५७१ - २) विभागानन्तरोपलब्धस्य समो विभागः विभागोत्तरलब्धसाधारणधनं पुनर्विभजनीयम्. याज्ञवल्क्यः—(१५७२-३) विभागानन्तरोपलब्धापहृतद्रव्यविभागः समः कर्तव्यः. बृहस्पतिः - (१५७३) अपहृतसाधारणद्रव्यसाधनम् कात्यायनः - (१५प्रच्छादितापहृतनष्टहृतसाधारणधनविभागः
७३-४) समः विभागानन्तरोपलम्भे.
विभागसंदेहे निर्णयविधिः
[पृ. १५७५ - १५८२]
विष्णुः - ( १५७५) प्रमाणसंदेहे पुनर्विभागः ; विभागहेतवः, शंखः शंखलिखितौ च - - (१५७५ ) विभागसंदेहे साक्षित्वाधिकारनिर्णयः. मनुः - ( १५७५) विभागसंदेहे पुनर्विभागः कर्तव्यः पुनर्विभागनि षेधः. याज्ञवल्क्यः - ( १५७५ - ९) विभागनिर्णये प्रमाणानि. नारदः– (१५७९ - ८१) विभागनिर्णये प्रमाणानि बृहस्पतिः - ( १५८१ - २) विभागनिर्णये प्रमाणानि कात्यायनः - ( १५८२) विभागनिर्णये प्रमाणानि भारद्वाजः - ( १५८२ ) समविषमविभागनिवर्तनकालावधिः वृद्धयाज्ञवल्क्यः - ( १५८२) विभागनिर्णये प्रमाणानि, तत्र दिव्यं न देयम्. सुमन्तुः
विभक्ताविभक्तकृत्यम्
[पृ. १५८३ - १५८९] नारद: - ( १५८३ - ४ ) पृथग्धर्मक्रियाकर्मगुणा असंमतकार्यकारिणो भ्रात्रादयः दानविक्रयादौ स्वतन्त्राः; अनुजसंस्कारार्थे पैतृकस्य स्वार्जितस्य वा घनस्य विनियोगः; कुटुम्बोपकारकोऽन्यो भरणीयः बृहस्पतिः (१५८४ - ६) विभागपत्रसाक्षिक्रिया; भोगः भागनिर्णय प्रमाणम् ; स्वेच्छाकृतभागविसंवादी दण्ड्यः;विभागे वृत्तेऽपि स्थावरमविभाज्यं, तत्र नैकः कश्चित् स्वतन्त्रो विभक्तोऽपि; पूर्वजैरनुजानां संस्काराः कार्या मध्यगाद्धनात् व्यासः(१५८६-७) विभागे वृत्तेऽपि स्थावरमविभाज्यं, तत्र नैकः कश्चित्स्वतन्त्र विभक्तोऽपि; मध्यगधनात् असंस्कृतसंस्कारः कर्तव्यः; सुतानुमतिं विना स्थावरदासविक्रयदानादौ न स्वातन्त्र्यम्. मरीचिः - (१५८७८) विभक्तैः श्राद्धादि पृथक् कार्यम् ; विभक्तानां त्वेकेन ज्येष्ठेन वृद्धयाज्ञवल्क्यः - ( १५८८) कुलक्रमायातस्थावरादेर्विक्रयदानादौ न कश्चित्स्वतन्त्रो विभक्तोऽपि. बृहद्यमः - ( १५८८) संसृष्टिकृत्यम्. लघुहारीतः - ( १५८८ ) विभक्तकृत्यम्. शाकलः - ( १५८८) अविभक्तानां देवकार्यमेकमेव, विभक्तानां पृथक्. आश्वलायनः - ( १५८८ ) एकपाकानां विभक्तानामेकः पञ्चयज्ञान् करोति; अनेकानां तु पृथगनुष्ठानम्. स्मृत्यन्तरम् - ( १५८८- ९) अविभक्तस्थावरस्य दानविक्रयादौ स्वातन्त्र्यनिमित्तानि; अविभक्तैः परस्परानुमत्या क्षेत्रादिदेयम् भूमिविक्रये ग्रामज्ञातिसामन्तदायादानामनुमतिर्ग्राह्या. अनिर्दिष्टकर्तृकवचनानि-(१५८९) स्थावरमविक्रेयम्; अविभक्तानां पृथग्ग्रामदे - शानां दैवपित्र्यकर्मपृथक्त्वम्.
-