________________
९९६
पहारकाण्ड
स्त्रीपचं स्त्रियाः समानम् ।
अग्रे दीधियुपरिविविदानदोष: 'संघये जारं गेहायोपपतिमात्यै परिवित्तं निर्ऋत्यै परिविविदानमराभ्या एदिधिषुः पतिम् । संधये जारमुपपतिं गेहाय उपपतिं व्यभिचारिणं आयै परिवित्तं ऊढे कनिष्ठेऽनूढं नित्यै परिविविदानं अनूढे ज्येष्ठे ऊढवन्तं आराध्यै देव्यै एदिधिषुः पतिं ज्येष्ठायां पुत्र्यामनूढायामूढा एदिधिषुः तत्पतिम् ।
शुभ.
शुम.
दुर्भगा स्त्री
भेगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् । महाबुध्न इव पर्वतो ज्योक् पितृष्वास्ताम् ॥ एषा ते राजन् कन्या वधूर्ध्नि धूयतां यम । सा मातुर्बध्यतां गृहेो भ्रातुरथो पितुः ॥ एषा ते कुलपा राजन् तामु ते परि दद्मसि । ज्योक् पितृष्वसाता आ शीर्ष्णः समोप्यात् ॥ असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च । अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥
सूर्या यन्ति योषितो हिरा लोहितवाससः । अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ||
विवाहेच्छो: कन्यामनोग्रहणम् परि त्वा परितत्नुनेक्षुणागामविद्विषे । यथा मां कामिन्यसो यथा मन्नापगा असः ॥ येथे भूम्या अधि तृणं वातो मथायति । एवा मध्नामि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥
सं चेन्नयाथो अश्विना कामिना सं च वक्षथः । सं वां भगासो अग्मत सं चित्तानि समुव्रता । यत् सुपर्णा विवक्षवो अनमीवा विवक्षवः । तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥
(१) शुमा. ३० १९; ता. ३।४१४१४ आयै (निर्ऋत्यै) निर्ऋत्यै (आ) ध्या एदिधिषुः पतिम् (अराध्यै दिधिषूपतिम् ). (२) असं. १११४११-४; कौसू. ३६ । १५. (३) असं. १ | १७|१; नि. ३।४ कौसू. ३६।९. (४) असं . १ । ३४ । ५. (५) असं. २।३०।१-५; कौसू. ३५/२१.
योषितो ( जामयो);
मदन्तरं तद् बाह्यं यद् षाशं तदन्तरम् । कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥ एयमगन् पतिकामा जनिका मोहमागमम् । अश्वः कनिक्रदद् यथा भगेनाहं सहागमम् ॥ येथा वृक्ष लिबुजा समन्तं परिषस्वजे । एवा परि ध्वजख मां यथा मां कामिन्यसो यथा मन्नापगा असः ॥ यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् । एवा निहन्मि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥
यथे द्यावापृथिवी सद्यः पर्येति सूर्यः । एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥
वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छं सक्थ्यौ । वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ।। मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् । यथा मम ऋतावसो मम चित्तमुपायसि ॥ वासां नाभिरारेहणं हृदि संवननं कृतम् । गावो घृतस्य मातरो सं वानयन्तु मे ॥ कामिन्या: पुरुषस्य च संभोगकामना परस्परवशीकरणं च
वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च । यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥ येन कृशं वाजयन्ति येन हिन्वन्त्यातुरम् । तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥ आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥ teri वाहो अश्विना समैति सं च वर्तते । एवामामभि ते मनः समैतु सं च वर्तताम् ॥ अहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव । रेष्मच्छिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥
(१) असं. ६।८।१ - ३; कौसू. ३५।२१. (२) असं. ६।९।१ - ३६ कौस. ३५/२१. (३) असं. ६।१०१।१-३; कीसू. ४०।१८. (४) असं. ६।१०२।१-१.