________________
८४०
* विनतायाः पणजितदास्यम् । गरुडस्य मातृदास्यात् दास्यं च ।
महाभारतम्
उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि मा चिरम् ॥
व्यवहारकाण्डम्
विनतोवाच
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्ण त्वमप्यस्य ततोऽत्र विपणावहे ॥ कद्रूरुवाच -- कृष्णवामहं मन्ये हयमेनं शुचिस्मिते । हि सार्धं मया दीव्य दासीभावाय भामिनि ॥ सौतिरुवाच --
एवं ते समयं कृत्वा दासीभावाय वै मिथः । जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥ ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् । शशाङ्ककिरणप्रख्यं कालवालमुभे तदा ॥ निशाम्य च बहून्वालाकृष्णान्पुच्छसमाश्रितान् । विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत् ॥ ततः सा विनता तस्मिन्पणितेन पराजिता । अभवदुःखसंतप्ता दासीभावं समास्थिता ॥ सौतिरुवाच --
सं विचिन्त्यब्रवीत्पक्षी मातरं विनतां तदा । किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥ विनंतोवाचदासीभूताऽस्मि दुर्योगात्सपत्न्याः पतगोत्तम ।
* अयं विषयः महाभारते १३।२१-२९ ( कुम्भकोणम्), पद्मपुराणे सृष्टिखण्डे अ. ४४ इत्यत्र च समागतः ।
(१) भा. १।२०१२-५. (२) भा. १।२३।२-४, (३) भा. ११२७।१२-१६.
पणं वितथमास्थाय सर्वैरुपधिना कृतम् || सौतिरुवाच
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः । उवाच वचनं सर्पास्तेन दुःखेन दुखितः ॥ किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् । दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः ॥ सौतिरुवाच -
श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥
ब्रह्मपुराणम्
ब्रह्मोवाचदासत्वमगमत्पूर्वं नागानां गरुडः खगः । मातृदास्यात्तदा दुःखपरिसंतप्तमानसः । कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥
गरुड उवाच -
कस्यापराधान्मातस्त्वं पितुर्वा मम वाऽम्यतः । दासीत्वमाप्ता वद तत्कारणं मम पृच्छतः ॥ ब्रह्मोवाच --
साऽब्रवीत्पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥
विनतोवाच
नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः । यस्या वाक्यं विपर्येति सा दासी स्यान्मयोदितम् ।। कचापि तथैवाहं सा मया संयुता ययौ । कद्रवा ममाभवद्वादश्छद्मनाऽहं तया जिता ॥ विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते । एवं दासीत्वमगमं कवाः कश्यपनन्दन ॥ यदा दासी तु जाताऽहं दासोऽभूस्त्वं द्विजन्मज ॥ (१) ब्रह्मपु. १५९/२, ६-१०.