________________
दायभागः
त्यादिना दर्शितम् । 'सपिण्डता तु सप्तमे पुरुषे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् । जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥' स्मृसा.१४७
1
धर्मको लिखितम् - यत्र कियत्सु धनेषु विभागो वृत्तस्तत्र कयोश्चित्संसर्गो वृत्तस्तत्र एकः संसर्गी विनष्टः प्रत्रजितो वा तदा किं सामान्यमुपस्थित पुरुषैरेव गृह्यताम् । तन्मतं, प्रव्रजितयोरप्यंशः कर्त्तव्यः । सोऽपि केन ग्राह्य इत्यत्राह बृहस्पतिः - 'यदा कश्चित्प्रमीयेत प्रव्रजेद्वा कथंचन । न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ सोदरस्यापि पत्न्याद्यभावे 'अनपत्यस्य धर्मोऽयमभार्यापितृकस्य चै’ति वचनात् । सोदराणामपि मध्ये संसृष्टयेव गृह्णीयात् । ‘भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः' इति वचनात् । यदा तु पितैव केनचित्पुत्रेण संसृष्टी तदा केनचित्संसृष्टी पुत्रों गृह्णीयात् नासंसृष्टी । न चानपत्यस्य धर्मोऽयमिति वचनेन व्युदासः । पितापुत्रयोरपि संसर्गकथनादेतदितरविषयतयां तस्य संकोच्यत्वात् । किञ्च 'ऊर्ध्व विभागाज्जातस्तु पित्र्यमेव धनं हरेत् । संसु टास्तेन वा ये स्युर्विभजेत स तैः सह ।' इति मनुवचनं निर्विषयं स्यात् । तेन पित्रा ये पुत्राः संसृष्टास्तैर्भ्रा तृभिः सह विभागोत्तरजातो गृह्णीयादित्यर्थः । तेन विभागानन्तरजातस्य संप्रदाने पितृसंसृष्टधनत्वं प्रयोजकम् । मृतांशग्रहणे सोदरत्वम् । 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेच्चांश जातस्य च मृतस्य च ॥' इति यथासंख्याभिधानात् । तथा विभागलब्धं वस्तु यद्यदीयतया प्रत्यभिज्ञायते तत्तस्यैवावस्थाप्यम् । 'संसृष्टिनां तु यो भागस्तेषामेव स इष्यते' इति वचनात् । अतोऽन्यथा प्रत्यभिज्ञातम् । यदा सोदरोऽसंसृष्टी अन्योद'र्यस्तु संसृष्टी तदा तद्धनं को गृह्णीयात् इत्यत्र याज्ञवल्क्यः‘अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् । असंसृष्टयपि चादद्यात् सोदरो नान्यमातृजः ॥ प्रकाशे तु — मृतस्य संसृष्टिनो धनं संसृष्ट्यपहरेत् गृह्णीयात् । विभागकाले अज्ञातगर्भायां पितृभार्यायां पश्चादनुत्पन्नस्यांशं संसृष्टयेव दद्यात् । सोदरस्य तु संसृष्टिनो धनं संसृष्टी सोदरो गृह्णीयात् दद्याच्च, न भिन्नोदरः संसृष्टीति पूर्वोक्तस्यापवादः । अन्योदर्यस्तु संसृष्टी धनं गृह्णीयादिति शेषः । नान्योदर्यधनं हुरेदिति संसृष्ट्यपीत्यनेन संबध्यते । अन्योदर्यः सापत्नः
मृतापुत्रधनाधिकारक्रमः
१५३९
संसृष्टी धनं हरेत् न पुनस्संसृष्ट्यपि, तेनान्योदर्यस्य धनग्रहणे संसृष्टत्वं प्रयोजकमुक्तम् । असंसृष्टयपीत्युत्तरेणापि संबध्यते ।
स्मृसा. १४७-९
प्रकाशे लिखितम् -- ' स्थावरं जङ्गमं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्भे व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥ ' अस्यापवादः--‘एकोऽपि स्थावरे कुर्याद्दानाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे तु विशेषतः ॥ इति लिखित्वा व्याख्यातम् । अप्राप्तव्यवहा रेषु भ्रातृषु विभक्तेष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्योषणार्थ पितृश्राद्धादिरूपधर्मार्थ स्थावरस्यैकोऽपि दानादि कुर्यात् । यत्तु 'विभक्ता अविभक्ता वा दायादाः स्थावरे समाः। एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥' इति, तदपि विभक्तेषूत्तरकालं विभक्ताविभक्तसंशय निरासेन सर्वार्थज्ञानमर्थवत् । न पुनरेककर्तृदानमेवासमीचीनमिति व्याख्येयम् । न पुनरनुमतिं विना दानाद्य सिद्धिरिति । सामन्तानुमतिस्तु सीमाविप्रतिपत्तिनिरासाय इति
दायादानुमतिप्रयोजनमसाधारण्यख्यापनार्थमेवेत्युक्तं प्राक् । 'हिरण्योदकदानेने ति तस्यापि संप्रतिपत्तेरित्यर्थः । 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुज्ञये 'ति स्थावरस्य विक्रयनिषेधात् 'भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ || षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आक्षेप्ता चानुमन्ता च तत्कालं नरके वसेत् ॥' इति दानप्रशंसादर्शनात् विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपतां कुर्यात् स्थावरस्येत्यर्थः । स्मृसा. १४९
श्रीकरनिबन्धे लिखितम् - [आदर्शपुस्तके १४७ पृष्ठे पूर्वोद्धृतश्रीकरग्रन्थः ' मनुः - पिता' इत्यारभ्य ' तत्परं गोत्रमुच्यते' इत्यन्तः - प्रमादेन पुनः अग्रिमोद्धृतसंदर्भपूमुद्धृतः १४९-५० पृष्ठयोः सोऽस्माभिस्त्यक्तः ।] सपिण्डाधिकारे व्यवस्था - तदभावे पितराविति मातापितरावित्यर्थः । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् पितरावित्येकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकशेषाभावपक्षे च मातापितराविति मातृशब्दस्य पूर्वश्रवणात्