________________
१५३०
व्यवहारकाण्डम्
'पितर्यविद्यमानेऽपि धनं तत्पितृसंततेः । तस्यामविद्यमानायां तत्पितामहसंततेः ॥ असत्यामपि तस्यां तु प्रपितामहसंततेः । एवमेवोपरितनाः सपिण्डा धनभागिनः ॥ तदभावे सकुल्याः स्युराचार्यः शिष्य एव वा । सब्रह्मचारी सद्विप्रः पूर्वाभावे परः परः ॥ शूद्रस्यैोदकाभावे राजा धनमवाप्नुयात् ।
* स्मृतिसारः मृतापुत्रधनाधिकारक्रमः संसृष्टिविभागश्च
(१) स्मृच. ३०२; पमा. ५३०; समु. १४३. (२) स्मृच. ३०२; पमा. ५३० तनाः (तनां) धन (ऋक्थ ); समु. १४३ तु (तत्) .
(३) स्मृच. ३०२; पमा. ५३० सकुल्याः (sसपिण्डाः); समु. १४३.
(४) स्मृच. ३०२; पमा. ५३०; सवि. ४२० (=) दका | (त्येष).
अथ बालरूपमते अपुत्रधनाधिकारः - तत्र याज्ञवल्क्यः – 'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ एषामभावे पूर्वेषां धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ||' कात्यायनः – 'अपुत्रस्यार्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता भ्राता भ्रातुः पुत्राश्च कीर्तिताः ॥' पत्नी च सवर्णा सैव ज्येष्ठा । यथोक्तम्-—‘सवर्णा चेद्विजातीनां प्रशस्ता दारकर्मणि ।' एतदभिप्रायमेव शंख :- 'ज्येष्ठा वा पत्नी' इति । बृहस्पतिः - 'सकुल्यैर्विद्यमानैस्तु पितृमातृसनाभिभिः । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' बृहन्मनुः – 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमर्थ लभेत च ॥ यच्चेदं नारदवचनं - ' अन्यत्र ब्राह्मणात्किन्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः॥' तदूढेतरावरुद्धाभिप्रायेण । तथा च बृहस्पतिः–‘येऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृ
आचार्यस्याप्यभावे तु तथा क्षत्रियवैश्ययोः ॥ मार्कण्डेय पुराणम्
साप्तपौरुष निरुक्तिः
* हरिनाथेन स्मृतिसारे ये अधुनाऽनुपलब्धानिबन्धांशाः समुद्धृतास्तेऽत्र संगृह्यन्ते ।
'पिता पितामहश्चैव तथैव प्रपितामहः । पिण्डसंबन्धिनो ह्येते विज्ञाताः पुरुषास्त्रयः ॥ पिण्डले भुज चान्ये पितामहपितामहात् । प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः । इत्येवं मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः ।।
(दरा) धनमवा (तद्धनमा) पू. समुं. १४३ दका (दरा ) . (१) स्मृसा. १३३.
(२) दा. १६४; स्मृसा. १३३ त्युक्ता (त्याद्या) त्येवं
विवर्जिताः । तेषामर्थहरो राजा सर्वस्याधिपतिर्हि सः ॥ तथा च नारदः - 'भ्रातॄणामप्रजः प्रेयात्कश्चिच्चेत्प्रव्रजेदपि । विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना || भरणं चास्य कुर्वीन् स्त्रीणामाजीवितक्षयात् । रक्षन्ति शय्यां | भर्तुश्चेदाच्छिन्धुरितंरासु च ॥' इति । तदसवर्णम्यभिप्रायम् । 'सवर्णा चेद्विजातीनामिति वचनात् । सवर्णा ज्येष्ठा इत्यभिप्रायः । 'सकुल्यैर्विद्यमानैरित्यादिवचनेनैव विरोधात् । अथवाऽत्यन्तयुवत्यपुत्राभिप्रायं नारदवचनं भरणमात्रविधायकम् । अन्यत्र सकलार्थहारिण्येव । तथा च शंखः - ' भ्रातृभार्यास्नुषाणां च न्यायप्रवृत्तानामनपत्यानां पिण्डमात्रं गुरुर्दद्याज्जीर्णानि वासांस्यविकृतानी'ति । हारीत: - 'विधवा यौवनस्था च नारी भवति कर्कशा | आयुषः क्षपणार्थे च दातव्यं जीवनं सदा ॥' अथवा संसृष्ट्यभिप्रायं 'भ्रातॄणामप्रज' इति नारदवचनम् । 'पत्नी दुहितर' इति विभक्तासंसृष्टिविषयम् । तथा 'पत्नी दुहितर' इति बाधनार्थ 'संसृष्टिनस्तु संसृष्टी'ति पठितम्। न च 'सोदरस्य तु सोदर' इत्यनेन संसृष्टिसंबन्धबाधनात् पत्नीत्व (त) स्यापि बाधात् पत्नीत्यस्य विरोधः । सोदराणां संसृष्टिनां तुल्यसंबन्धावगमात् । 'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ सोदर्या