________________
१५१४
तत्सपिण्डा बान्धवावा ये तस्याः परिपन्थिनः । हिंस्युर्धनानि तान् राजा चोरदण्डेन शासयेत् ॥ (१) तदेतैः सप्तवचनैरपुत्रस्य मृतस्य यद् यावद्धनं स्थावरजङ्गमहेमादिकं भर्तुस्तत्सर्वं सोदरभ्रातृपितृव्यदौहित्रादिषु सत्स्वपि पत्न्या एवेति, ये तु तद्धनग्रहणे प्रति पक्षाः स्वयमेव वा गृह्णन्ति ते चौरवद्दण्डनीया इति ब्रुवाणो बृहस्पतिः पत्नीसद्भावे पितृभ्रातृप्रभृतीनां धनाविकारं सुदूरं निरस्यति । दा. १५०-५१
पितृव्यपदं भर्तुः सपिण्डपरम् । दौहित्रपदं भर्तुर्दुहितृसंतानपरम् । स्वस्रीयपदं भर्तुः स्वसृसंतानपरम् । मातुलपदं च भर्तुर्मातृकुलपरम् । तदेवमादिभ्यो दद्यात् न पुनरेतेषु सत्स्वेव स्वपितृकुलेम्य: पितृव्यादिवचनानर्थ क्यात् ।
व्यवहारकाण्डम्
दा. १७३
(२) अत एव दृष्टादृष्टोपकारकत्वलक्षण संबन्धेनान्या पेक्षया पत्न्याः प्रत्यासन्नत्वमभिधाय बृहस्पतिना गौण पुत्राभावे तिष्ठत्स्वपि पित्रादिषु सकुल्यान्तेषु पत्न्या एव पतिधनभागित्वं दर्शितं - आम्नाये स्मृतितन्त्रे चेत्यादि - भिः । अत्र द्वितीयार्धेन दृष्टादृष्टोपकारसंपादने पित्रादिभ्यः पन्याः प्रत्यासन्नत्वमभिहितम् । अवयवार्थस्तु आम्नाये वेदे 'अर्धो वा एष आत्मनो यज्जायेत्येवमादौ आत्मनो देहस्येत्यर्थः । एतदुक्तं भवति । देहार्ध अर्धाङ्गं यथा दृष्टादृष्टोपकारि तद्वज्जायाऽपीति । स्मृतितन्त्रे धर्म शास्त्रे 'पतेद शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्थ शरीरस्य निष्कृतिर्न विधीयते ॥' इत्येवमादौ । लोकाचारे लोकाचारानुमतार्थशास्त्रे 'शरीरार्धमयीं जायां को हि हास्यति पण्डितः' इत्येवमादौ । पुण्यापुण्यफले समा क
1
(१) दा. १५०; अप. २।१३५ वा वा (वाश्च); व्यक. १६० तस्याः (ऽन्ये स्युः); स्मृच. २९४ वा वा (वाश्च) चोर (चौर्य) प्रजापति:; ममु. ९।१८७३ स्मृसा. ७१ वा ये तस्याः (ये तस्याः स्युः) तान् राजा (राजा तान् ) : १३४ वा ये तस्याः (ये तस्याः स्युः): १४१ वा ये तस्याः ( ये तस्या: स्युः) शास (शांत); रत्न. १५४ शास (दण्ड) प्रजापति:; विचि. २३७ स्मृसा (पृ. १३४) वत् ; व्यनि. रत्नवत्; स्मृचि. ३२ तत्स (स) वा ये तस्याः च तस्याः स्युः); व्यप्र. ४८९ तत्स (स) वा ये तस्याः (ये तु तस्याः स्युः) प्रजापतिः ; विता. ३८४ (-); बाल. २।१३५ (पृ.१९३) शास ( घात) शेषं व्यप्रवद; समु. १४१ प्रजापतिः,
र्मणि समाधिकारात् । असुतस्य मुख्य गौणसुतहीनस्य पत्नी यज्ञाधिकारापादक प्रशस्त ब्राह्मादिविवाह संस्कृता 'पत्युर्नो यज्ञसंयोगे' इति पाणिनिस्मरणात् । तेन क्रीता भार्या पत्नीपदेन व्यावर्तिता । तस्याः पत्नीत्वायोगात् । तथा च स्मृत्यन्तरं ' क्रयक्रीता तु या नारी न सा पत्नी विधीयते । न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः ॥' पत्नीत्वाभावे केवलं दृष्टोपकारकत्वमेव नादृष्टोपरकारकत्वं स्त्रिया इति दर्शयितुं दासीं विदुरित्युक्तम् । एवं च पित्र्यादिकर्मण्यर्हताऽपि पतिभागहारित्वे प्रयोजिकेति पत्नीग्रहणेन ज्ञापितम् । अत एव श्रौतस्मार्त्तादिकर्मणि पातिव्रत्येन परीक्षिताधिकारार्हतया एव पत्न्याः पतिधनलाभ इत्याह प्रजापतिः - पूर्वप्रमीताग्निहोत्रमित्यादि । अग्निहोत्रशब्देन तत्साधनाग्निर्लक्ष्यते । पतिव्रता सुसंयता । व्रतनिमित्त)त्वेन श्रौतस्मार्तकर्माधिकारार्हता भर्त्रा सह वासेन स्थितेति यावत् । नारी पत्नी । स्मृच.२९०-९१
(३) केचित्त्रिया: पार्वणमप्याहुस्तन्निषेधाय श्राद्धानि परिगणयति - मासषाण्मासिकादिकमिति । अत्र मासशब्देन द्वादशमासिकान्युच्यन्ते । षाण्मासिकशब्देन द्वे ऊनषाण्मासिके । आदिशब्देन एकादशसपिण्डन प्रत्यब्दकर्त्तव्य क्षयाहश्राद्धानि गृह्यन्ते । अतो नान्यत्कुर्यात्, अन्यथा वचनान्तरैरेव एतेषां श्राद्धानां सिद्धत्वाद्ववचनमिदमनर्थकं स्यादिति । तथा दापयेदिति स्वार्थे णिच्, रामो राज्यमकारयदितिवत् । पतिव्रता साध्वी । उदयकरस्तु मनुटीकायां पतिव्रताशब्दं मुख्यार्थ विवक्षन्ननुमरणान्तत्वात्पातिव्रत्यस्य दापयेदिति पारार्थ्यमेवाह । एवं च पति व्रतात्वेतरगुणसंपन्नानामप्यधिकारो न स्यादिति बहवं नाद्रियन्ते । एवमपुत्रधने विद्यमानायां साध्व्यां भार्यायः तस्या अधिकारः । *विर. ५९०-९१ (४) कुप्यं त्रपुसीसादिकम् । कव्यं पित्रुद्देशेन त्यक्तं अन्नादिकम् । पूर्तमत्र खातादिकर्माङ्गभूतदानादिकम् । +रत्न. १५२ (५) इदं च विभक्तपतिधनपरम् । पतिव्रता साध्वी । न तु पतित्रतैव । अनुमरणपर्यन्तेन पतिव्रतत्वनिश्चयाद्धनग्रहणाभावापत्तेः । तथा च साध्वी भार्या पत्युः प्रपौ* स्मृतिसारोद्धृतपारिजातमतस्थं हरिहरव्याख्यानं विरगतम् । + शेषं स्मृचगतम् ।